________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८३ (सू २७६२) इति दीर्धे चरितार्थम् । अक्रथि, अक्राथि। ऋथं क्रथम् । कार्य क्राथम् । वन ८०३ च । हिंसायामिति शेषः । वनु च नोच्यते । वनु इत्यपूर्वएवायं धातुर्न तु तानादिकस्यानुवादः । उदिस्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वषयते । ज्वल ८०४ दीप्तौ । णप्रत्ययार्थ पठिष्यमाण एवायं मिस्वार्थमनूद्यते । प्रज्वलआह निपातनात्परत्वादिति । काथेति निपातनापेक्षया 'चिएणमुलोः-' इत्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्वः' इत्यपि परम् , तथापि पुरस्तादपवादन्यायेन काथेति वृद्धिनिपातनं 'मिता ह्रस्वः' इत्यस्यैवाव्यवहितस्य बाधकम् , नतु 'चिएणमुलो:-' इत्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम् । अक्रथि, अकाथीति । कथेण्येन्ता. चिणि दीर्घविकल्पः । कथं कथं काथं काथमिति । णमुलि दीर्घविकल्पः । वन चेति । चकारो हिंसानुकर्षकः, तदाह हिंसायामितीति । शेष इति । वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः । वनति । णौ तु वनयति । णमुलि तु वनं वनं वानं वानम् । वनु च नोच्यत इति । कगे नोच्यते इतिवद्वयाख्येयम् ! नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह अपूर्व एवायमिति । उदित्करणेति । यदि तानादि. कस्यैव अत्रानुवादः स्यात् , तर्हि तनादिगणे वनु इति कृतेन उदित्करणेनैव 'उदितो वा' इत्याद्युदित्कार्यस्य सिद्धरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः । तथा च वनतीति परस्मैपदं शब्विकरणं चैत्याह तेन क्रियासामान्ये वनतीत्यादीति । आदिना वनतः वनन्तीत्यादिसंग्रहः । प्रवनयतीति । घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ह्रस्वः । वक्ष्यत इति । 'ग्लानावनुवमा च' इत्यनेनेति शेषः । तानादिकात्तु वनु याचने इत्यस्मारिणचि उपधादीर्घ वानयतीत्येव भवति । ज्वल दीप्तौ । णप्रत्यनिपातनात्परत्वादिति । निपातनविषयीभूतमिता ह्रख इत्यस्मात्परत्वाद् ‘मितां ह्रस्वः' इत्येतदेव निपातनेन बाध्यते न तु ततः परं 'चिरणमुलो:-' इत्येतदित्यर्थः । वन च । संभक्तौ पठिनस्य हिंसायां मित्त्वार्थोऽनुवादः । वनति । णौ । वनयति । अवनि । अवानि । वनं वनम् । वानं वानम् । तानादिकस्येति । वनु याचने इत्यस्येत्यर्थः । सामर्थ्यादिति । अनुवादे तु तत्र कृतेनोदित्त्वेन क्त्वायामिड्विकल्पस्य निष्ठायामिटप्रतिषेधस्य च सिद्धेः पुनरुदित्करणं व्यर्थ स्यादिति भावः । वनतीत्या. दीति । णौ । वनयति । तानादिकस्य तु वनुते वानयति । मित्त्वविकल्प इति ।