________________
१८२] सिद्धान्तकौमुदी।
[ भ्वादि. ष्टक ७८२ प्रतीघाते । स्तकति । चक ७८३ तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । प्रात्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात् परस्मैपदम् । कखे ७८४ हसने । एदित्त्वा वृद्धिः । अकखीत् । रगे ७८५ शङ्कायाम् । लगे ७८६ सङ्गे । हगे ७८७ हगे ७८८ बगे ७८६ टगे ७६० संवरणे । कगे ७६१ नोच्यते । अत्यायमर्थ इति विशिष्य नोच्यते, क्रियासामान्यार्थत्वात् । अनेकार्थस्वादिस्यन्ये । अक ७६२ ग ७६३ कुटिलायो गतौ । कण ०६४ रण ७६५ गतौ । चकाण । रराण । चा ७६६ शण ७६७ श्रण ७६८ दाने च । शण गतौ इत्यन्ये । श्रथ ७३६ रुथ ८०० क्रथ ८०१ कथ ८०२ हिंसार्थाः । 'जासिनिग्रहण- (स् ६१७) इति सूत्रे फ्राथेति मित्वेऽपि वृद्धिनिपात्यते । क्राथयति। मिस्त्वं तु निपातनात्परत्वात् 'चिएणमुलो..' प्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुः षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति । 'धात्वादेः-' इति षस्य सत्वे ष्टुत्वनिवृत्तिः। चक तृप्तौ तृप्तीति । 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः । एवं च धात्वन्तरत्वाभावान्न मित्त्वतदभावविकल्पः। ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह आत्मनेदिष्विति । षगे टगे इति । षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यत इति । ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत प्राह अस्यायमिति । क्रियाविशेषो नास्यार्थ इति भावः । ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थः, तर्हि कथमयं धातुरित्यत आह । क्रियासामान्यार्थवाचित्वादिति । धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः । अनेकेति । कलिः कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः । श्रथ क्नथ कथ क्लथ इति । चत्वारोऽपि द्वितीयान्ताः। श्राद्यतृतीयौ रेफमध्यौ द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः ।आद्यस्तु शकारादिः । इतरे ककारादयः। ननु कथधातोघटादित्वेन मित्त्वाद् णौ उपधावृद्धिसंपन्नस्य अकारस्य 'मिता ह्रस्वः' इति ह्रस्वत्वे कथयतीति स्यात् , नतु क्राथयतीति, तत्राह जासिनीति । 'जासिनिप्रहणनाटकाथपिषां हिंसायाम्' इति षष्ठीविधौ णौ मित्त्वेऽपि काथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेवं सति घटादौ कथधातोः पाठो व्यर्थ इत्यत प्राह मित्त्वं त्विति । चिरणमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः । ननु तत्रापि काथेति निपातनाद् वृद्धिरित्यत प्रनाटयति । वृद्धिनिपात्यत इति । तेन 'मिता हवः' इति न प्रवर्तत इति भावः।
१ बालमनोरमाकृत्तु इमं 'कथ' इति ककारादिं पठति