________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८१ वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यापरस्मैदम् । हेडति । जिहेड । हिडयति । अहिडि,अहीडि । अनादरे तु हेडयति । वट ७७६ भट ७८० परिभाषणे । वट वेष्टने, भट भृतौ इति पठितयोः परिभाषणे मिस्वार्थोऽनुवादः। णट ७८१ नृतो। इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्व पठितस्य नाटयमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाटयम् । घटादौ तु नृत्तं तत्यं चार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ णट नतौ इति पठन्ति । गतौ इत्यन्ये । णोपदेशपर्युदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठाद्धटादिोपदेश एव । ऋकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमनूद्यत इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। नन्वात्मनेपदिन एवात्रानुवादे परसौ. पदं न स्यादित्यत आह परस्मैपदिभ्य इति । यदि त्वात्मनेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्यतेति भावः । हेडतीति । वेष्टते इत्यर्थः। हिडयतीति । वेष्टयतीत्यर्थः । 'हेतुमति-' इति णिचि 'मिता ह्रखः' इति ह्रख इति भावः । अहिडि, अहीडीति । 'चिण्णमुलोः-' इति दीर्घविकल्पः । अनादरे तु हेडयतीति । वेष्टनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नापूर्वी धातुरित्याह वट वेष्टन इत्यादि । अनु. वाद इति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । 'णट नृत्तौ' इत्यस्य पौनरुक्त्यमाक्षिपति इत्थमेव पूर्वमपि पठितमिति । टवर्गान्तेष्विति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यत इति परिहारस्यासंभवात्पौनरुक्त्यमेवेति भावः । परिहर्तुमुपक्षिपति तत्रायं विवेक इति । तत्र तयोर्धात्वोः अयं वक्ष्ममाणो विवेकः-अर्थभेदः प्रत्येतव्य इस्यर्थः। पूर्व पठितस्येति । टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति । यस्य कर्तृषु नटव्यवहारः तन्नाव्यं पूर्व पठितस्य नटधातोरर्थ इत्यर्थः । किं तनाट्यमित्यत्राह वाक्यार्थेति । घटादौ त्विति । यस्य कर्तृषु नर्तकव्यपदेशः तद् नृत्यम् , नृत्तं च घटादौ पठितस्य नटेरर्य इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह पदार्थेति । एवं च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते। धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। अथ नटधातोरस्य गोपदेशपर्युदासभ्रमं वारयति णोपदेशेति । अननाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्कन्दने' इति चौरादिकस्यैव शकैव नास्तीति भावः । णोपदेश एवेति । प्रणटति प्रणटयति । नाटीत्यस्य तु