________________
१८० ]
सिद्धान्तकौमुदी ।
[ भ्वादि
1
७७२ ऋदि ७७३ क्वदि ७७४ वैक्लव्ये । वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी | इदित इति स्वामी । कदिकदी इदितौ, कद लद इति चानिदिताविदि मैत्रेयः । कदिक्रदिक्कदीनामाह्वानरोदनयोः परस्मैपदिषूक्रानां पुनरिह पाठो मित्वार्थ श्रात्मनेपदार्थश्च । जित्वरा ७७५ संभ्रमे । 'घटादयः षितः' (ग सू १८६ ) । षित्वादङ् कृत्सु वच्यते ।
श्रथ फणन्ताः परस्मैपदिनः । ज्वर ७७६ रोगे । ज्वरति । जज्वार । गड ७७७ सेचने । गडति । जगाड । हेड ७७८ वेष्टने । हेडृ श्रनादरे इत्यात्मनेपदिषु गतः । स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो
I
क्षम् दाक्षं दाक्षम् । क्रप कृपायां गताविति । श्रदुपधोऽयम् । कृपायां गतौ चेत्यर्थः । कदि ऋदि क्लदि इति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति कदिऋदिक्लदीनामित्यादिना । ञित्वरेति । त्रिरित् । 'जीतः क्लः' इति क्लः प्रयोजनम् । श्रदित्त्वं तु 'आदितश्च' इति निष्ठायामिरिनषेधार्थम् । वस्तुतस्तु आदित्त्वं व्यर्थम्, हस्खेऽप्यात्मनेपदसिद्धेः 'रुष्यमत्वरसंघुषाखनाम्' इति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति । त्वरत्यन्ता इति शेषः । गणसूत्रमिदम् । तत्प्रयोजनमाह वित्त्वादिति । वक्ष्यत इति । षिद्भिदादिभ्योऽङ्' इत्यनेनेति शेषः । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राग् घटादिसमाप्तिरिति वक्ष्यते ।
अथ फणान्ता इति ।
फण गतावित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोग इति । णौ ज्वरयति । चिणि तु अज्वरि, अज्वारि । णमुलि तु ज्वरं ज्वर ज्वारं ज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टन इति । डकारादकार उच्चारणार्थः । ततश्च 'नाग्लोपिशास्त्रदिताम्' इति निषेधो न भवति । स एवेति । हेडृधातुरेव विव्यथिषते । इह 'सन्यतः' इति इत्वम् । वाव्यथ्यते । वाव्यथीति । ऋप कृपायां गतौ । चकाराभावेऽपीद्दार्थद्वयमित्येव बोध्यमित्याहुः । कदि ऋदि । क्रन्दयति ।
कन्दि । कान्दि । क्रन्दं क्रन्दम् । कान्दं क्रान्दम् । ञित्वरा । श्रादित्वमिह व्यर्थम्, हस्वोच्चारणेनाप्यात्मनेपदसिद्धेः । न च निष्ठायाम् 'श्रादितश्च' इतीट्प्रतिषेधार्थमिति शङ्कयम, ‘रुष्यमत्वर -' इति निष्टायामिटो विकल्पितत्वात् । तूर्णः । त्वरितः । ज्वर रोगे । णौ ज्वरयति । ज्वरि । ज्वारि । ज्वरं ज्वरम् । ज्वारं ज्वारम् । गड सेचने । णौ । गडयति । अगडि । अगाडि | गडं गडम् । गाडं गाडम् । एवमन्यत्राप्यूह्यम् । हेड वेष्टने । उत्सृष्टानुबन्ध इति । तेन वेष्टने 'नाग्लोपि -' इति निषेध