________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७६ पप्रथे । प्रस ७६६ विस्तारे । पप्रसे । म्रद ७६७ मर्दने । स्खद ७६८ स्खदने । स्वदनं विद्रावणम् । सजि ७६६ गतिदानयोः । मिस्वसामर्थ्यादनुपधात्वेऽपि 'चिएणमुलो:-' (सू २७६२) इति दीर्घविकल्पः । अक्षति, अक्षाजि। तों क्षञ्जम् । क्षाकं ज्ञाअम् । दक्ष ७७० गतिहिंसनयोः।योऽयं वृद्धिशैघ्रययोरनुदात्तेस्सु पठितस्तस्येहार्थविशेष मित्त्वार्थोऽनुवादः । कप ७७१ कृपायां गतौ । कदि व्यथो लिटि । 'अत्र लोपः-' इत्यतः अभ्यासस्येति 'युतिस्वाप्यो:-' इत्यतः संप्रसारणमिति चानुवर्तते, तदाह व्यथोऽभ्यासस्येत्यादिना । हलादिश. षापवाद इति । व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः । तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न संप्रसारणम् , 'न संप्रसारणे संप्रसारणम्' इति निषेधात् । ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह थस्येति । यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः । मृद मर्दन इति । ऋदुपधोऽयम् । मर्दते। ममृदे । क्षजिधातुरिदित् क्षञ्जते । चक्ष । ननु घटादिगणे अस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याप्रसक्त्या 'मितां ह्रस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावाद् अनुपधात्वेन 'मितां ह्रस्वः' इत्यस्य प्रसक्तयभावाच्च । अत एव अक्षजि क्षजं क्षअमित्यत्रापि 'चिएणमुलो:-' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह मित्त्वसामर्थ्यादिति । दक्ष गतीति । ननु 'दक्ष वृद्धौ शीघ्रार्थे च' इत्यनुदात्तेत्सु पाठादेव सिद्ध किमर्थमिह पाठः ? अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह वृद्धिशघ्रययोरिति। मित्त्वसामर्थ्यादनुपधात्वेऽपि चिरणमुलोर्दीर्घविकल्पः । अदक्षि, अदाक्षि । दक्षंदपवाद इति । हलादिःशेषप्रक्रमणादिति भावः । एवं च 'उत्सर्गसदेशश्चापवादः' इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटायुक्त्या 'न संप्रसारणे-' इति निषेधो. ऽत्र नापेक्षितः । केचित्तु हलादिःशेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमिति अपवादत्वं न संभवतीति मत्वा 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनाद्धलादिःशेषं बाधित्वा परस्य संप्रसारणे पूर्वस्य निषेधः । 'संप्रसारणं तदाश्रयं च कार्यम्-' इति वचनाभावे तु 'व्यथो लिटि' इति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन 'इग्यणः-' इति संज्ञाविशेषद्वयाश्रयत्वेन च बह्वपेक्षस्य बहिरङ्गत्वात्संप्रसारणं बाधित्वा हलादिःशेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः। थस्येति । संप्रसारणस्याभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु थकारनिवृत्तेरिति भावः । लिटीति किम् ,