________________
१७८] सिद्धान्तकौमुदी।
[ भ्वादि. 'नान्ये मितोऽहेतो' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । व्यथ ७६४ भयसञ्चलनयोः । व्यथते ! २३५३ व्यथो लिटि। (७-४-६८) व्यथोऽभ्यासस्य मंप्रसारणं स्यालिटि । हलादिशेषापवादः । थस्य हलादिशेषेण निवृत्तिः । विव्यथे। प्रथ ७६५ प्रख्याने। त्याक्षिपति कथं तहीति । शृरिवति । समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट संघाते' इति पठितम् । तदिदं घाटादिकाद् घटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाभावाद् ह्रस्वाभावे उद्घाटनं प्रविघाटयितेति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया संघातादन्यत्र विकासनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनानिह घटादिगणे पाठः घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव, नतु धातुभेदः । अन्यथा घाटादिकत्वं गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता नतु गणान्तरे, तेषां त्वर्थान्तरवृत्तावपि मित्त्वमि ते धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट संघाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामथै मित्त्वार्थोऽनुवाद इति लब्धम् । एवं च विघटयति इत्लादावर्थान्तरवृत्तौ राय. न्तस्य कथं मित्त्वमित्याशङ्कय निराकरोति नचेति । तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेष वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल पाणने' चित्र चयने' इति पञ्च धातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति । तथा च पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते । अहेताविति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाद् ज्ञपादि. पञ्चभ्य इति लभ्यते । हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते । तद्भिन्नो णिच् स्वार्थिकः अहेतुः, तदाह अहेतौ स्वार्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोर तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयः, ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावाद् 'घट चेष्टायाम्' इति निदेशश्चौरादिकस्य 'घट संघाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यं ।। किंतु इहैव घटादिगणे 'घट चेष्टायाम्' इत्यपूर्वोऽयं धातुः। तस्य चाथन्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाद्धस्वो निर्बाध इति भावः । व्यथधातुर्द्वितीयान्तः । स्थितम्, तदेतद् ध्वनयन्नुदाहरति विधटयतीति । व्यथोलिटि। हलादिःशेषा