________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७७ अकल्पिव्यत, प्रकल्प्स्यत । वृत् । वृत्तः संपूर्णो द्युतादिवृतादिश्चेत्यर्थः।
अथ स्वरत्यन्तात्रयोदशानुदात्तेतः षितश्च । घर ७६३ चेष्टायाम् । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मिसंज्ञा । तत्फलं तु णौ 'मिता हस्वः' (सू २५६८) इति 'चिएणमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' 'प्रविघाटपिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु। घट सङ्घाते इति चौरादिकस्येदम् । न च तस्येवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् , लुङि' इति परस्मैपदपक्ष द्युतादिलक्षणे अङि सति ङित्त्वान गुणः । अङभावे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह अकल्पिष्टेति, अक्लृप्तेति । अकल्पस्य. दिति । लुङि स्ये 'लुटि च वलुपः' इति परस्मैपदपक्ष ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लुपः' इति इग्निषध इति भावः । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह अकल्पिष्यत, अकल्प्स्यतेति। वृदिति । वृतेः समाप्त्यर्थकात् कर्तरि क्विप् , तदाह वृत्त इति । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः । वृत्तशब्दस्य विवरणं सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः ।
अथ त्वरत्यन्ता इति । जि त्वरा संभ्रमे इत्यन्ता इत्यर्थः । षितश्चेति । पित्संज्ञका इत्यर्थः। षित्कार्यभाज इति वा । मि त्वरा संभ्रमे इत्युक्त्वा घटादयः षित इति वक्ष्यमाणत्वादिति भावः। पित्फलं तु स्त्रियामित्यधिकारे 'षिद्भिदादिभ्यः-' इत्यङ् । घटा व्यथा इत्यादिरूपम् । घटत इति। चेष्टते इत्यर्थः । तत्फलं त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ हस्वः, चिरणमुलोदीर्घः-' इति दीर्घश्च वक्ष्यते। धातुपाठे अर्थनिर्देश उपलक्षणमित्युक्तम् । ततश्चार्थान्तरवृत्तरपि घटधातोर्घटादिकार्य भवत्येव, तदाह घटयति विघटयतीति । संश्लषयति विश्लेषयतीत्यर्थः। णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति चिण्युदाहरणम् । घाटं घाटम् , घटं घटमिति ण्यन्तारणमुलि दीर्घविकल्पस्योदाहरणम् । 'नित्यवीप्त्सयोः' इति द्विवचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वम् , तदा उद्घाटनं प्रविघाटयितत्यत्र विकसनार्थकस्यापि घटधातोर्णी मित्त्वाद् ध्रस्वः स्यादिसीटेति । 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । वृदिति । वृतु वर्तने इत्यस्मारिकप् । नित्वरा संभ्रमे इत्यस्यानन्तरं 'घटादयः षितः' इत्युक्तत्वात्त्वरत्यन्तास्त्रयोदशैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धम् , तथापि स्पष्टप्रतिपत्त्यर्थमाह षितश्चेति । प्रयोजनं तु 'षिद्भिदादिभ्यः-' इत्यङि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । घट चेष्टायाम् । ये धातवोऽन्यत्राधीतास्तेषामिह पाठोऽर्थनियमार्यः । ये त्विहैव पठ्यन्ते तेषामुपसर्गादिनार्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु