________________
१७६ ] सिद्धान्तकौमुदी। [ भ्वादि. रस्यावयवो यो रेफसदृशः तस्य च लकारसदृशः स्यात् । कल्पते । चक्लुपे । चक्लूपिणे, चक्लुप्से । इत्यादि स्यन्दिवत् । २३५१ लुटि च क्लपः। (१-३-६३) लुटि स्यसनोश्च क्लुपेः परस्मैपदं वा स्यात् । २३५२ तासि च क्लुपः (७-२-६०) क्लुपेः परस्य तासेः सकारादेरार्धधातुकस्य चेएन स्यात्तङानयोरभावे । कल्सासि । कल्तास्थ । कल्पितासे, कल्तासे । कल्प्स्यति, कल्पिष्यते, कल्प्स्यते । कल्पिषीष्ट, क्लुप्सीष्ट । अक्लुपत् , अकल्पिष्ट, अक्लृप्त । णिकः, तदाह कृपेऋकारस्यावयव इत्यादिना। एव च लिटि चकृप ए इति स्थिते कित्त्वाद् गुणाभावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लुपे इति रूपम् । कृपः रः ल इति छेदमभ्युपगम्य कृपधातोः रेफस्य लकार इति व्याख्याने तु चक्लपे इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह कल्पते चक्लप इति । ऊदित्त्वादिड्विकल्पं मत्वा आह चक्लपिषे चक्लप्स इति । स्यन्दिवदिति । चक्लपाथे चक्लूपिध्वे, चक्लुब्ध्वे । चक्लुपे चक्लुपिवहे, चक्लृप्वहे चक्लपिमहे, चक्लुप्महे ।। लुटि च क्लपः । चकाराद् 'वृद्भयः स्यसनोः' इत्यतः स्यसनोरित्यनुकृष्यते । 'शेषात्कर्तरि-' इत्यतः परस्मैपदमिति । 'वा क्यषः' इत्यतो वेति च, तदाह लुटि स्यसनोरित्यादिना । तासि च । चकारात्सकाराद्यार्धधातुकं गृह्यते । 'सेऽसिचि कृत-' इत्यतः से इति 'आर्धधातुकस्य-' इत्यत आर्धधातुकस्येडिति चानुवर्तते, 'न वृद्भयश्चतुर्थ्यः' इत्यतो नेति च, 'गमेरिट्-' इत्यतः परस्मैपदेष्विति च, तदाह क्लपः परस्येत्यादिना । कल्तासीति । 'लुटि च क्लुपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लृपः' इति इरिनषेधे गुणे रपरत्वे लत्वे रूपम् । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा श्राह कल्पितासे, कल्प्तास इति । लुटि तु 'लुटि च क्लुपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लुपः' इति इएिनषेधं मत्वा आह कल्प्स्यतीति । परस्मैपदाभावे तु ऊदित्त्वादिड्विकल्पं मत्वा आह कल्पिष्यते, कल्प्स्य त इति । कल्पताम् । अकल्पत । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा अाह कल्पिषीष्टेति, क्लृप्सीटेति च । इडभावे 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । अक्लृपदिति । 'युद्भयो इति । 'कृपे रो लः' इति अर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति कृपेर्ऋकार. स्येत्यादिना । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या । तथा च 'लुटि च क्लृपः' इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः । तासि च क्लृपः । चकारात्साद्यार्धधातुकं गृह्यते । क्लुप्.