________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १७५
3
स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते श्रनुस्यन्दते वा जलम् । 'श्रप्राणिषु' किम् - अनुस्यन्दते हस्ती । 'श्रप्राणिषु' इति पर्युदासाद् मत्स्योदके अनुस्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु न इत्युक्तौ तु न स्यात् । कृपू ७६२ सामर्थ्यं । २३५० कृपो रो लः । ( ८-२ - १८ ) कृप उः रः ल इति छेदः । कृप इति लुप्तषष्ठीकम् । तच्यावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेऋकाअस्यन्त्स्यत्, अस्यन्त्स्यत, अस्यन्दिष्यत । अनुविपर्यभिनि । एभ्य इति । अनुवि परि अभिनि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहः साडः सः' इत्यतः स इति षष्ठयन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । ननु मत्स्योदके अनुष्यन्देते इत्यत्र कथं षत्वं प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह प्राणिष्विति पर्युदासादिति । प्राणिकर्तृकस्य नेति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्य इति । सामर्थ्य कार्यक्षमीभवनम् । ऊदित्त्वाद्वेदकोऽयम् । ऋदुपधः । तडि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते कृपो रो लः । कृप इति लुप्तविभक्तिकम् । षष्ठयेकवचने उः इति ऋकारस्य रूपम् । श्रवयवषष्ठी । कृप उरिति स्थिते यद्गुणे कृपोरिति भवति । र इति षष्ठयन्तम् । कृपोर् रः इति स्थिते 'रो रि' इति रेफलोपे कृपो र इति भवति । ल इति प्रथमान्तम् । प्रकार उच्चारणार्थः, तदाह कृप उः रः ल इति छेद इति । एतच्च ऋलृ सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तैत्यत श्राह कृप इति लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः। कृष्धातोरिति लभ्यते । तच्चावर्तत इति । कृप रः ल इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते - कृप रः ल इत्येकं वाक्यम्, तदाह कृपो यो रेफस्तस्य लः स्यादिति । तथा च कल्पते इति भवति । कृप उः रः ल इति द्वितीयं वाक्यम् । तत्र कृपेत्यवयवषष्ठयन्तम् उरित्यत्रान्वेति । उरित्यवयवषष्ठयन्तं रेफे अन्वेति । तथा च कृप्धातोरवयवो य ऋकारः, तस्य यो रेफः, तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारावयवत्वं रेफस्य न संभवतीति रेफशब्दो रेफसदृशे ऋकारशे लाक्षणिकः । ल इत्यपि लकारसदृशे लुकारांशे लाक्षइत्यर्थः । षत्वं भवत्येवेति । प्राण्यप्राणिकर्तृकस्याप्यप्राणिकर्तृकत्वानपायादिति भावः । असमर्थसमासवाक्यभेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह प्राणिषु नेत्युक्ताविति । कृपू सामर्थ्यं । भाष्यकृतां व्याख्यामाह कृप उ