________________
१७४ ] सिद्धान्तकौमुदी।
[ भ्वादि. 'वृद्धयः स्यसनो' (सू २३४७) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्याद् 'न वृद्भयः- (सू २३४८) इति निषेधः। स्यन्त्स्यति, स्यन्दिप्यते, स्यनस्यते । स्यन्दिषीष्ट, स्यन्सीष्ट। 'युगयो लुङि' (सू२३४५) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् , अस्यन्दिष्ट, अस्यन्त अस्यन्त्साताम् अस्यन्त्सत । अस्यन्त्स्यत् , अस्यन्दिष्यत, अस्यन्स्यत । २३४६ अनुविपर्य: भिनिभ्यः स्यन्दतेरप्राणिषु । (८-३-७२) एभ्यः परस्याप्राणिकर्तृकस्य प्यते, नतु स्यन्दिष्यति इति । तदयुक्तम् , अन्तरङ्गतया दिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तडानाभापनिमित्तांपेक्षतया च 'न वृद्भयः-' इति निषेधस्य बहिरङ्गत्वादित्याशङ्कय निराकरोति वृद्भय इति । 'वृद्भधः स्यसनोः' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भयः-' इति निषेध इत्यन्वयः । कुत इत्यत आह चतुर्ग्रहणसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्याद् नतु 'न वृद्भयश्चतुर्व्यः' इति निषेधः, तर्हि चतुर्थ्य इति व्यर्थं स्यात् । नच कृपूव्यावृत्तिस्तत्फलमिति शङ्कयम् , 'तासि च क्लुपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिरिनषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतु. ग्रहणं चतुर्णामपि सर्वत्र इसिनषेधार्थमिति भावः । भाष्ये तु 'निषेधाश्च बलीयांसः' इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भयः-' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहणं प्रत्याख्यातम् । तथा च लुटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृद्भयः-' इति नित्यमिरिनषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिविकल्पं मत्वा प्राह स्यन्दिष्यते स्यन्त्स्यत इति । इडभाव दस्य चर्वम् । श्राशीलिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह स्यन्दिषीष्ट, स्यन्त्सीष्टेति । 'न वृद्भयः-' इति निषेधस्तु न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः। लुङि विशेषमाह शुद्भयोलुङीत्यादिना। अङिति । द्युतादिलक्षण इति शेषः । नलोप इति । 'अनिदिताम्-' इत्यनेनेति शेषः । आत्मनेपदपक्ष तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह अस्यन्दिष्ट अस्यन्तेति । तत्र इडभावपक्षे अस्पन्द् स् त इति स्थिते 'झलो झलि' इति सलोपे दस्य चर्वम् । नचापित्त्वेन ङित्त्वाद् 'अनिदिताम्--' इति नलोपः शङ्कयः, सिज्लोपस्यासिद्धत्वनानुपधात्वादिति भावः । अस्यन्साताम् अस्यन्त्सतेति । अस्यन्त्थाः अस्यन्त्साथाम् अस्यन्द्ध्वम् । अस्यन्त्सि अस्यन्त्स्वहि अस्यन्स्महि । सत्त्वादिति । अस्यन्तेति । अत्र 'अनिदिताम्-' इति नलोपो न भवति, सिज्लोपस्यासिद्धत्वेनानुपधात्वात् । अनुविपर्यभिनिभ्यः । एभ्य इति । पञ्चभ्य
१ 'अनुपर्यभिनिविभ्यः' इति क्वचित् पाठः ।