________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता।
[१७३
७५६ वृद्धौ। शृधु ७६० शब्दकुस्सायाम् । इमी वृतुवत् । स्यन्दू ७६१ प्रस्रवणे। स्यन्दते । सस्यन्दे । सस्यन्दिषे, सस्सन्से। सस्यन्दिध्वे, सवन्ध्वे स्थन्दिता, स्यन्ता। 'गमेरिट्-' इत्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तडानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेन जिगमिषिता इत्यत्र गमेः सन्नन्तात् तृचि इट् सिध्यति, वृतेः सन्नन्ताद् हेर्लुकि विवृत्स इत्यत्र इणिनषेधश्च सिध्यति । वय॑तीति । लुटि स्यः । 'वृद्भयः स्यसनोः' इति परस्मैपदविकल्पः । 'न वृद्भयः-' इति इरिनषेधः । गुणः रपरत्वम् । परस्मैपदाभावे त्वाह वर्तिष्यत इति । तडानयोरभाव इत्युक्तेः 'न वृद्भयः-' इति इणिनषेधो न। अवर्तिष्टेति । परस्मैपदस्य अश्वाभावे रूपम् । अवय॑दिति । लुङि स्यः । 'वृद्भयः स्यसनोः' इति परस्मैपदम् । 'न वृद्भय:-' इति इएिनषेधः, गुणः, रपरत्वमिति भावः । अवर्तिष्यतेति । परस्मैपदस्याभावे 'न वृद्भयः-' इति. इरिनषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'युद्भयो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणः अङ् । लुट्लुङोः 'वृद्भयः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भयः-' इति इएिनषेधश्च, तदाह इमौ वृतुवदिति । वय॑ति, वर्धिष्यते । अवृधत् , अवर्धिष्ट । अवय॑त् , अवर्धिष्यत । शय॑ति, शर्षिध्यते । अश्धत् , अशर्धिष्ट । अशय॑त् , अशर्धिष्यत । स्यन्दूधातुः ऊदिद् नकारोपधः कृतानुस्खारपरसवर्णनिर्देशः । सस्यन्दिषे, सस्यन्त्स इति । इडभावे दस्य चर्वेन तः। सस्यन्दिद्ध्वे सस्यन्द्ध्व इति । इडभवि धकारात् प्राग् दकारः। खर्परकत्वाभावान्न चर्वम् । स्यन्दिता, स्यन्तेति । इडभावे दस्य चर्वम् । ननु लुटि स्ये सति 'वृद्भयः स्यसनोः' इति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्प बाधित्वा 'न वृद्भयश्चतुर्व्यः' इति इएिनषेधे स्यन्त्स्यतीत्येव रूपमि. प्राप्ते इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम् । तङानयोरिति । जिगमिषिता। जिगमिषितारौ इत्यादौ तृचि परतः सन इडागमसिद्धय 'गमेरिट परस्मैपदेषु' इत्यत्र परस्मैपदग्रहणं तडानयोरभावं लक्षयतीत्यभ्युपगम्यते । तच्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् तेन परस्मैपदाभावेऽपि तृचि विवृत्सिता विवृत्सितारावित्यत्र 'अतो हे' इति हेर्लकि त्वं विवृत्स इत्यत्र च सन इएिनषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोवृतादीनामात्मनेपदेन समानपदस्थेड्वचनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्धिषते इत्यादाविड् भवति।विवृत्सितेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्व तत्समानपदस्थत्वाभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुर्ग्रहणसामर्थ्यादिति । अत्र व्याचख्युः-पञ्चभ्य इति वक्तुमुचितम् । एवं च 'तासि च' इत्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः, तडानयोः