________________
१७२ ] सिद्धान्तकौमुदी। [भ्वादिश्राद्योऽभावे च । 'नभन्तामन्यके समे' । 'मा भूवनन्यके सर्वे' इति निरुक्तम् । अनभत् , अनभिष्ट | अतुमत् , अतोभिष्ट । इमौ दिवादी क्रयादी च । स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने। ध्वंस गतौ च । अडि नलोपः । अस्रसत् , अस्रंसिष्ट । 'नास्त्रसत्कारणां ग्रैवम्' इति रघुवंशे। भ्रंशु इत्यपि केचित् पेटुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधःपतने इति दिवादौ । सम्भु ७५७ विश्वासे । अत्रभत् , अरम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । वृतु ७५८ वर्तने । वर्तते । ववृते। २३४७ वृद्भयः स्यसनोः । (१-३-६२) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च । २३४८ न वृद्भयश्चतुर्यः । (७-२-५६) एभ्यः सकारादेरार्धधातुकस्येएन स्यात्तङानयोरभावे । वर्त्यति, वर्तिष्यते । प्रवृतत् , अवतिष्ट। अवय॑त् , श्रवर्तिष्यत । वृधु तीति क्रयादौ। णभधातुः णोपदेशः। नभते। आद्योऽभाव चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेहिँसार्थकत्वमेव कुतो न स्यादित्यत आह मा भूवनन्यके सर्वे इति । नभन्तामित्यस्य विवरण-मा भूवन्निति । न भवन्तीत्यर्थः । समे इत्यस्य विवरणं-सर्वे इति । निरक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । खंसु ध्वंसु भ्रंसु इति। त्रयो नोपधाः कृतानुस्खारनिर्देशाः । ध्वंसु गतौ चेति । चादवलंसनेऽपि । अस्रसदिति । द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः। नास्त्रसदिति । नास्रंसदित्यपपाठः । नचास्रंसदिति लडो रूपमिति भ्रमितव्यम् । तत्र परस्मैपदासंभवात् । टेंभुधातुरकारमध्यः । वृतु वर्तने इति । उदिद् ऋदुपधः सेट्कः । वर्तत इति । शपि गुणे रपत्वम् । ववृत इति । 'असंयोगात्-' इति कित्त्वाद् गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेष रूपम्। लुटि वर्तिता। वृद्भयः । बहुवचनाद् वृतादिभ्य इति गम्यते । 'शेषात्कर्तरि-' इत्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च, तदाह वृतादिभ्य इति । न वृद्भयः। 'सेऽसिचि-' इति सूत्रात् से इति आर्धधातु. कस्येडिति चानुवर्तते, तदाह एभ्यः सकारादेरिति । तङानयोरभाव इति। च । क्षोभते । क्षुभ्यतीति दिवादौ । तुम्नातीति क्रयादौ । नास्रसदिति । नास्त्रंसदित्यापपाठ एव । न चेदं लडो रूपम् , तत्र परस्मैपदासंभवादिति भावः । वृद्भयः। धृतादयः पञ्च । न वृद्भयः । गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः । वर्वतिष्यति । वर्वतिषति । चतुर्ग्रहणफलं तु मूले एव स्फुटीभविष्यति । 'सेऽसिचि-' इति सूत्रात्से इत्यनुवर्तते तदाह सकारादेरिति । इण् न स्यादिति । स्यन्देरूदित्त्वाद्विकल्पे