________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७१ रिको गुणः स्यादित्संज्ञकशकारादौ । एश प्रादिशित्त्वाभावाबानेन गुणः । मिमिदे । अमिदत् , अमेदिष्ट । जि विदा ७४४ स्नेहनमोचनयोः। मोहनयोः इत्येके । स्वेदते । सिविदे। अस्विदत् , अस्वेदिष्ट । मि विदा च इत्येके । अविदत् , अच्वेदिष्ट । रुच ७४५ दीसावभिप्रीतौ च । रोचते सूर्यः । हरये रोचते भक्तिः । अरुवत् , अरोचिष्ट । घुट ७४६ परिवर्तने । घोटते । जुघुटे । अघुटत् , अघोटिष्ट । रुट ७४७लुट ७४८ लुठ ७४६ प्रतिघाते। अरुटत् , अरोटिष्ट । शुभ ७५० दीप्तौ । तुभ ७५१ संचलने । णभ ७५२ तुभ ७५३ हिंसायाम् । इत्येतदर्थः । मिमिदे इत्यत्र लिटः 'असंयोगात्-' इति कित्त्वेऽपि गुणं शङ्कितुमाह मिदेगुणः। मिदरित्यवयवषष्ठी। गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते 'ष्टिबुक्लमुचमां शिति' इत्यतः शितीत्यनुवर्तते । श् चासाविचेति कर्मधारयः । तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते, तदाह मिदरित्यादिना । देवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इद् यस्येति बहुव्रीहिमाक्षित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्कय मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह एश आदिशित्त्वाभावादिति । जिवि. देति । षोपदेशोऽयम् । अनिट्सु खियेति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीती चेति । अभिप्रीतिः प्रीतिविषयीभवनम् । दीप्तौ उदाहरति रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति हरये रोचते भक्तिरिति । भक्तिः हर्याश्रितप्रीतिविषयो भवतीत्यर्थः । 'रुच्यर्थानाम्-' इति संप्रदानत्वाच्चतुर्थी । शुभ संचलन इति । क्षोभते । क्षुभ्यतीति दिवादौ । चुनापरस्मैपदमिति । त्रिमिदा । मिदेर्गुणः । 'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तते । तत्र शश्चासौ इच्चेति कर्मधारयात्सप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेन 'यस्मिन्विधिः-' इति तदादिविधिः प्रवर्तते, तदाह इत्संज्ञकशकरादाविति । आदिशित्त्वाभावादिति । मेद्यति मेद्यत इत्यादौ तु 'दिवादिभ्यः-' इति श्यन् । श्रादिशित्त्वाद् गुणो भवत्येव । मिमिद इति । शितीति बहुव्रीहौ त्विह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः । निविदा । अनिट्: कारिकायां खिद्यतिरिति श्यना निर्देशादयं सेट् । खेदिता। स्वेदिष्यते । अिदिवदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम् । हरय इति । 'रुच्यर्थानाम्-' इति संप्रदानसंज्ञायां चतुर्थी । घुट । परिवर्तनमितस्ततोभ्रमणम् । जुघुट इति । 'असंयोगात्-' इति कित्त्वाद् गुणाभावः। शुभ । संचलनं प्रकृतिविपर्यासो मन्थनं