________________
१७० ] सिद्धान्तकौमुदी। [भ्वादि
____अथ कृपूपर्यन्ता अनुदात्तेतः । द्युत ७४१ दीप्तौ । द्योतते । २३४४ द्युतिस्वाप्योः संप्रसारणम्। (७-४-६७) अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते दिद्युताते । द्योतिता । २३४५ युद्भयो लुङि। (१-३-६१) द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदे अङ् । अद्युतत् , प्रद्योतिष्ट । श्विता ७४२ वर्ण । श्वेतते। शिश्विते । अश्वितत् , अश्वेतिष्ट । मि मिदा ७४३ स्नेहने । मेदते । २३४६ मिदेर्गुणः । (७-३-८२) मिदेद्वित्वे हलादिशेषे पुगन्तलक्षण गुणे 'अभ्यासस्यासवणे' इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । प्रोहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि 'अस्तिसिवः-' इति तकारस्य ईटि 'इट ईटि' इति सिचो लोपे 'आडजादीनाम्' इति प्राटि वृद्धिः। माङयोगे तु मा भवानुहीत् । आनहेति । 'अत प्रादेः' इति दीर्धे नुट् ।।
कृपूपर्यन्ता अनुदात्तेत इति । द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थः । द्युति खाप्योः। अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तरिति भावः। दिद्युत इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः-' इति संप्रसारणे, 'संप्रसारणाच' इति उकारस्य पूर्वरूपे रूपम् । युद्भयो लुङि । बहुवचनाद् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी । 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येति लभ्यते । ‘शेषात्कर्तरि-' इत्यतः परस्मैपदमित्यनुवर्तते । तदाह धुतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः, तदाह अद्योतिष्टेति । श्विता वर्ण इति । श्वेतवर्णकरणे श्वेतीभवने वेत्यर्थः । अश्वि. तदिति । द्युतादित्वादङ् । अश्वेतिष्टेति । आत्मनेपदपक्ष रूपम् । एवमग्रेऽपि युतादौ लुङि रूपभेदो ज्ञेयः। त्रिमिदा स्नेहन इति । मिरित् 'नीतः क्तः' नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् । मा भवानुहदिति । 'न माझ्योगे' इत्याडभावः। 'इरितो वा' इत्यङ् वा। अथ धुतादिः। द्युत दीप्तौ। द्युतिखाप्योः। खापीति णिजन्तस्य ग्रहणम् । दिद्युत इति । संप्रसारणे कृते 'संप्रसारणाच' इति पूर्वरूपम् । खापेरुदाहरणं तु सुष्वापयिषति । इह स्वापेणिजन्तस्याभ्यासनिमित्तप्रत्ययेनानन्तर्ये सति संप्रसारणमिष्यते । तेनेह न-वापरावुल् खापकः, तमिच्छति खापकीयति, ततः सन् सिखापकीयिषति । शुद्भयो लुङि । बहुवचननिर्देशात् शौण्डेरित्यत्रेव तदादिग्रहणम् , तदाह धुतादिभ्य इति । द्युतादयो घट चेष्टायामित्यवधिकाः । 'डः सि-' इत्यत्रेव लुङीति सप्तम्याः षष्ठयर्थतेत्यभिप्रेत्याह । लुङः