________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १६६
1
I
तर्जनेषु । पिसृ ७१६ पेसृ ७२० गतौ । पिपिसतुः । पिपेसतुः । हसे ७२१ हसने । एदिवान वृद्धिः । श्रहसीत् । णिश ७२२ समाधौ । तालव्योष्मान्तः । प्रणेशति । मिश ७२३ मश ७२४ शब्दे रोषकृते च । तालव्योष्मान्तौ । शक ७२५ गतौ । दन्त्योष्ठयान्तस्तालव्योष्मादिः । शवति । श्रशवीत्, अशावीत् । शंश ७२६ प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश शेशतुः शेशुः । शेशिथ । शसु ७२७ हिंसायाम् । दन्त्यो मान्तः । ' न शसदद-' ( सू २२६३ ) इत्येवं न । शशसतुः शशसुः । शशसिथ । शंसु ७२८ स्तुतौ । श्रयं दुर्गतावपीति दुर्ग: । 'नृशंसो घातुकः क्रूरः' इत्यमरः । शशंस । आशिषि नलोपः, शस्यात् । चह ७२६ परिकल्कने । कल्कनं शाठ्यम् । श्रचहीत् । मह ७३० पूजायाम् । अमहीत् । रह ७३१ स्यागे । रहि ७३२ गतौ । रंहति । रंह्यात् । दृह ७३३ द्दहि ७३४ बृह ७३५ बृहि ७३६ वृद्धौ । दर्हति । ददर्ह दद्द्हतुः । हति । बर्हति । बृंहति । बृहि शब्दे च । 'बृंहितं करिगर्जितम्' इत्यमरः । बृहिर् इत्येके । अबृहत्, अबर्हत् । तुहिर् ७३७ दुहिर् ७३८ उहिर् ७३६ अर्दने तोहति । तुतोह । श्रतुहत्, अतोहीत् । दोहति । दुदोह । श्रदुहत्, अदोहीत् । निकारिकास्वस्य दुर्ग्रहणं नेच्छन्ति । श्रोहति । उवोह ऊहतुः । श्रोहिता । मा भवानुहत् । श्रौहीत् । श्रर्ह ७४० पूजायाम् । श्रनहं ।
1
करणेति । जर्ज चर्च झर्केति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति । 'ह्मथन्त -' इत्यनेनेति शेषः । शि समाधाविति । गोपदेशत्वाद् 'उपसर्गादसमासेऽपि -' इति नस्य णत्वम्, तदाह प्रणेशतीति । 'शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः कृतानुस्वारस्य निर्देशः । 'चह परिकल्कने' इत्यारभ्य अर्हति - पर्यन्ता हकारान्ताः । रह त्याग इति । नायमिदित् । रहि गताविति । श्रयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अबृहत् ।
बर्हीदिति । इरित्त्वादविकल्प इति भावः । उवोहेति । उहिर्धातोर्लिटि परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो न त्विहो. ष्मान्तेषु । णिश समाधौ । समाधिरन्तःकरणनिरोधः । प्रणेशतीति । ' उपसर्गादसमासेऽपि' इति णत्वम् । रोषकृते चेति । चकारात्समाधौ । शश प्लुतगतौ । 'न शसदद-' इति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे शेशतुरिति । प्राचा तु शशतुरित्युक्तं तदयुक्तमिति भावः । अवहीदिति । 'ह्मयन्त-' इति न वृद्धिः । रह त्यागे । अयं कथादावपि 'ज्ञपमिच्च' इति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः ।
?