________________
१६८ ]
सिद्धान्तकौमुदी ।
[ भ्वादि •
:
घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः । २३४३ पुषादिद्युतादितः परस्मैपदेषु । ( ३-१-५५ ) श्यन्त्रिकरणपुषादेर्युतादेलेदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । श्रघसत् । जर्ज ७१६ चर्च ७१७ झ ७१८ परिभाषण हिंसासस्य तः स्यादिति । आदेश अकारस्य उच्चारणार्थत्वात्तकारः स्यादित्यर्थः । लुङि चलेः सिचि प्राप्ते पुषादि । 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्लिख्यातिभ्यः - ' इत्यतः श्रङिति चानुवर्तते । पुषादि द्युतादि लुदित् एषां समाहारद्वन्द्वात् पञ्चमी । तत्र पुषधातुस्तु भ्वादौ कयादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगणो गृह्येत, तर्हि युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्रयाद्यन्तर्गणः, तत्र हि 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादने' इति चत्वार एव पठ्यन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युः तर्हि लाघवाद् लुदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्यते, णिचा चलेर्व्यवहितत्वात् । अतः परिशेषाद् दिवादय एव गृह्यन्ते, तदाह श्यन्वि
1
I
सः सीति च्छेदः । सादौ किम्, घस्मरः । श्रार्धधातुके इति किम्, वस्से । श्राषिपीति । आशीर्लिङीत्यर्थः । एतच्च कर्तरि प्रयोगमभिप्रेत्योक्तम् । कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम् । पुषादिद्युता । पुष धातुवदौ दिवादौ क्रमादौ चुरादौ च पठ्यते । यदि तु पुष. पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्यते तदा युतादिग्रहणमनर्थकं भवेत् । पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि क्रायन्तर्गणः । तत्र हि पुषधातोरग्रे मुष स्तेये, खच भूतप्रादुर्भावे, हठे च, ग्रह उपादाने, इति चत्वार एव पठ्यन्ते । यदि तु त एव जिवृक्षिताः स्युस्तर्हि लाघवाल्लदित एव क्रियेरन् । ग्रहेः स्वरितेत्त्वेऽपि लृकारेणैव तन्निर्वाहादने कानुबन्धासङ्गगौरवशङ्काया श्रप्यभावात् । नापि चुरादिः । णिचा व्यवधानेन ततोऽन्तरस्य च्लेरसंभवात् । श्रतः परिशेषाद् दिवादय एव गृह्यन्त इत्याह श्यन्धिकरणपुषादेरिति । केचित्तु दिवायन्तर्गत एवं पुषादिर्गृह्यते व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्विकल्प इति पक्षे चौरादिकपुषादेरपि परः चिलः संभवतीति तेषामाशयः । 'नन्दिग्रहिपचादिभ्यः' इतिवत् 'पुषद्युताद्य्लुदितः' इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च लुदित एव कुतो न कृता इति चेत् । अत्राहुः - निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लृकारपाठे विपरीतगौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लुदित्करणेऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्कयम्, आदितामीदितामूदितां चैतेषु सत्त्वाद् लृकारेण तत्तत्कार्याणामनिर्वाहादने कानुबन्धासङ्गगौरवस्य दुर्निर्वारत्वादिति । जर्ज चर्च । एषां परिभाषणादिभिः सह यथासंख्यं नास्ति, व्याख्यानादित्याहुः ।