________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १६७
पेचयम् । पुप्रोष । पुप्लोष । पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । घृषु ७०८ सङ्घर्षे । हृषु ७०६ अलीके । तुस ७१० इस ७११ इस ७१२ रस ७१३ शब्दे । तुतोस । जह्वास । जह्लास । ररास । लस ७१४ श्लेषण क्रीडनयोः । घस्लृ ७१२ अदने । अयं न सार्वत्रिकः । ‘लिट्यन्यतरस्याम्' ( सू २४२४ ) इत्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । कमरचि तु विशिष्योपादानम् । घसति । घस्ता । २३४२ सः स्यार्धधातुके । ( ७-४-४६ ) सस्य तः स्यात्सादावार्धधातुके । घरस्यति । घसतु । अघसत् । रनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्वोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ऋदुपधाः । अलीकं मिथ्याभवनं मिथ्योक्तिर्वा । तुस हसेत्यारभ्य णश गतावित्यतः प्राक सकारान्ताः । घस्लृधातुरनिट्कः । श्रयमिति । घस्लृधातुः सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत श्राह लिटीति । यद्ययं सार्वत्रिकः स्यात् तदा लिट्यपि प्रयुज्येत । ततश्च 'अद भक्षणे' इति धातोः 'लिट्यन्यतरस्याम्' इति घस्लृभावविधिर्व्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । तत्र तावल्लिङ्गं दर्शयति अत्रैवेति । भ्वादिगणे अत्रैव क्रमे श्रस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । नच धातुसंज्ञार्थः पाठ इति शङ्कयम्, युत दीप्तावित्यतः प्राक् पाठेनैव सिद्धे श्रत्र क्रमे तत्पाठवैयर्थ्यादिति भावः । लृदित्करणमङीति । प्रयोगे लिङ्गमिति शेषः । अनिट् कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुप्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति कमरचीति । 'सृघस्यदः क्मरच्' इत्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षणमिदम् । लिटि अस्य प्रयोगाभावाल्लुट्युदाहरति घस्तेति । सः सि । स इति छेदः । सः इति षष्ठयन्तम् । सि इति सप्तम्यन्तम् श्रार्धधातुकविशेषणम् । तदादि - विधिः। ‘अच उपसर्गात्तः' इत्यतः त इत्यनुवर्तते । अकार उच्चारणार्थः, तदाह गुणः । ‘अभ्यासस्यासवर्णे' इत्युवङ् । घृषु संघर्षे । ल्युटि घर्षणम् । घस्लृ अदने ।
यमिति । यद्ययं सार्वत्रिकः स्यात्तदा लिट्यपि प्रयुज्येत, ततश्च 'लिट्यन्यतरस्याम् ' इति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः । अत्रैव पाठ इति । भ्वादौ परस्मैपदे पाठ इत्यर्थः । क्मरचीति । 'सृघस्यदः क्मरच्' इति सूत्रे । सः स्वार्थ ।