________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६५ ध्वाक्षि ६७२ घोरवाशिते च । चूष ६७३ पाने । चुचूष । तूष ६७४ तुष्टौ । पूष ६७५ वृद्धौ । मूष ६७६ स्तेये। लूष ६७७ रूष ६७८ भूषायाम् । शूष ६७६ प्रसवे । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । यूष ६८० हिंसायाम् । जूष ६८१ च । भूष ६८२ अलकारे । भूषति । ऊष ६८३ रुजायाम् । ऊषांचकार । ईष ६८४ उन्छे । कष ६८५ खष ६८६ शिष ६८७ जष ६८८ झष ६८९ शष ६६० वष ६६१ मष ६६२ रुष ६६३ रिष ६६४ हिंसाः । तृतीयषष्ठी तालव्योमादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिशेषिथ। शेष्टा । क्सः अशित्तत् । अशेषयत् । जेषतुः, जझषतुः। शेषतुः । ववषतुः । मेषतुः । २३४० तीषसहलुभरुषरिषः। (७-२-४८) इच्छस्यादेः परस्य असूर्तणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काक्षायामपि । घोरवाशितं क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः। ईष उञ्छ इति । ईदुपधः। कषेत्यारभ्य दश धातवः। तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिटकः । कादिनियमात्थलि वसि मसि च नित्यमिट, अजन्ताकारवत्त्वाभावेन थलि वेटकत्वाभावात् । शिशेषिथ । शिशिषिव शिशिषिम। अशिक्षदिति । 'शल इगुपधात्-' इति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः। ववषतुरिति । 'न शसदद-' इति निषेधादेत्त्वाभ्यालोपौ न । रुषधातुः सेटकः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोष रुरुषिव रुरुषिम । तीषसह । 'आर्धधातुकस्य-' इत्यत इडित्यनुवर्तते । 'स्वरतिसूतिइत्यतो वेति च । तीति सप्तम्युपादानात्तदादिविधिः । इष सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् , तदाह इच्छत्यादेरिति । इच्छतीति इषः श्तिपा निर्देशः। इषधातुर्विवक्षितः । इषु इच्छायां तुदादिः शविकरणः। इष गतौ दिवादिः श्यन्विकरणः । इष भाभीक्ष्ण्ये क्रयादिः श्नाविकरणः । तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिकाङ्क्षा इच्छा । दाक्षि भ्राति ध्वाति । घोरवासितं घोरशब्दः । वास शब्दे । ध्वान्तीति । ध्वाक्षः काकः । द्राक्षि । धातोः 'गुरोश्च हलः' इति अप्रत्यये द्राक्षा । यवादिगणे निपातनानलोपः । द्राक्षामान् । इह मतोर्वत्वं तु न भवति, 'अयवादिभ्यः' इत्युक्तेः । तूष तुष्टौ । दिवादौ तु ह्रखोपधः । मूष स्तोये। संज्ञायां क्वुनि मूषकः । क्रयादौ तु ह्रखोपधोऽयम् । भूष अलंकारे । अयं चुरादावपि । ईष उछे। 'गुरोश्च हलः' इत्यप्रत्यये ईषा लागलदण्डः।कष खष षान्तौ । शिषेत्ययमप्यनिटको न तु रौधादिक एव, संकोचे मानाभावादित्यभिप्रेत्योदाहरति शेष्टा । प्रशिक्षदित्यादि।