________________
१६४ ] सिद्धान्तकौमुदी। [ भ्वादि तनूकरणे तक्षः। (३-१-६६) श्नुः स्याद्वा शविषये। तक्ष्णोति, तक्षति वा काष्ठम् । ततनिथ, ततष्ठ । अतक्षीत् अततिष्टाम् । अताक्षीत् अताष्टाम् । 'तनूकरणे' किम्-वाग्भिः संतक्षति । भसंयतीत्यर्थः । उक्ष ६५७ सेचने । उक्षांचकार । रत ६५८ पालने । णित ६५६ चुम्बने । प्रणिक्षति । वृक्ष ६६० ष्ट्रक्ष ६६१ णक्ष ६६२ गतौ । क्षति । क्षति । नक्षति । वक्ष ६६३ रोषे । सङ्घाते इत्येके । मृक्ष ६६४ सङ्घाते । म्रक्ष इत्येके। तक्ष ६६५ स्वचने । त्वचनं संवरणं स्वचो ग्रहणं च । पक्ष परिग्रहे इत्येके । सूर्त ६६६ श्रादरे । सुसर्त। अनादरे इति तु क्वाचिस्कोऽपपाठः । 'प्रवज्ञावहेलनमसूक्षणम्' इत्यमरः। काति ६६७ वाक्षि ६६८ माक्षि ६६६ काक्षायाम् । दाक्षि ६७० धाक्षि ६७१ भावः । श्राक्षीः श्राष्टम् आष्ट । आक्षम् आक्ष्व आक्ष्म । आक्षिष्यत् , आक्ष्यत् प्रादयताम् आक्ष्यन् । आक्ष्यः आक्ष्यतम् आक्ष्यत । श्राक्ष्यम् श्रादयाव श्रादयाम । तथू त्वक्षु इति । स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम् । तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे श्नः स्याद्वा शब्विषय इति । 'खादिभ्यः श्नुः' इत्यतः श्नुरिति, 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्व. धातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते । तनूकरणऽर्थे विद्यमानात् तक्षधातोः श्नुः स्यात्कर्थे सार्वधातुके इति फलितम् । नच तक्षुधातोस्तनूकरणार्थकत्वाव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्थमिति वाच्यम् , अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तदणोतीत्यादि । प्रखंवद्रूपाणि । लुङि सिचि इट्पक्षे 'नेटि' इति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपम् अश्वत् । एवं त्वक्षुधातुरपि । णिक्षधातुर्णोपदेशः। प्रणिक्षतीति । 'उपसर्गादसमासेऽपि-' इति णत्वम् । त्रक्ष ष्ट्रक्ष णक्ष गताविति । त्रयोऽप्यकारमध्याः, द्वितीयः षोपदेशः, तदाह स्त्रक्षतीति । षस्य सत्वे टुत्वनिवृत्तिरिति भावः । णक्षधातुर्णोपदेशः । सिचि 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति। दन्त्योष्ठयादिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं संवरणमिति । सूर्तधातुः रेफमध्यः । अपपाठत्वे हेतुमाह अवक्षेति । सूर्तधातोरनादरार्थकत्वे तु अघाषीत् , अघषीत् । अतक्षीदिति । 'नेटि' इति वृद्धिनिषेधः । इडभावे तु अताक्षीत् । प्रणिक्षतीति । 'उपसर्गादसमासेऽपि-' इति नित्यं णत्वम् । 'वा निंसनिक्षनिन्दाम्' इति तु कृद्विषयम् । 'रावुल्तृचौ', प्रणिक्षकः । प्रनिक्षकः । प्रणिक्षिता। प्रनिक्षिता। अवशेत्यादि । सूक्षणमादरस्ततोऽन्यदसूर्तणमित्यमरप्रन्थार्थः । यदि तु सूक्षणमनादर इत्युच्येत तर्हि असूक्षणमवज्ञापर्यायो न स्यादिति भावः । काति ।