________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६१ जगृहिषे, जवृते । जघृट्वे । गर्हिता, गर्दा । गर्हिष्यते, घय॑ते । गर्हिषीष्ट, घृक्षीष्ट । लुङि अगर्हिष्ट । इडभावे । २३३६ शल इगुपधादनिटः क्सः। (३-१-४५) इगुपधो यः शलन्तस्तस्मादनिटः प्लेः क्सादेशः स्यात् । अक्षत । २३३७ क्सस्याचि । (७-३-७२) अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य (सू ४२) अघृताताम् अघृक्षन्त । ग्लह ६५१ च । ऋदुपधः । गर्हत इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृह इति । 'असंयोगात्-' इति कित्त्वाद्गणाभावः । न च कित्त्वात् परत्वाद्गणः शङ्कयः, 'ऋदु. पधेभ्यो लिटः कित्त्वं गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः। ऊदित्त्वादिड्विकल्पं मत्वा अाह जगृहिषे, जघृक्ष इति । अभ्यासे उरदत्वम् , 'हलादिः शेषः' जश्त्वम् , इट , षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह जघृव इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गति । इडभावे गुणे रपरत्वे ढत्वघत्वष्टुत्वढलोपाः । घदयंत इति । गुणः, रपरत्वम् , हस्य ढः, भष्भावे ढस्य कः, षत्वम् । घृक्षीष्टेति । श्राशीलिङः सीयुटि इडभावे 'लिङ्सिचौ-' इति कित्त्वाद्गणाभावे, हस्य ढः, भष्भावः, ढस्य कः, षत्वम् । अगर्हिति । सिच इटि गुणे रपरत्वे षत्वे रूपम् । शल इगुपधा। शलन्त इति । 'धातोरेकाचः-' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः क्सादेशः अदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वाहकारस्य न गुणः । हस्य डः, भष्भावः, ढस्य कः, षत्वमिति भावः । अघृक्ष प्राताम् इति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते क्सस्य । अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः । 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते। तदाह अजादावित्यादिना। अलोऽन्त्यस्येति। अन्त्यस्याकारस्य लोप इति भावः । वस्तुतस्तु 'लुग्वा दुहदिह-' इत्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति तदादिविधिः । तेन दृशः क्सप्रत्यये तादृक्षा इत्यादौ नायं लोपः । अजादौ तङीत्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष प्राताम् इति स्थिते भावात् । अन्यथा गवे हितं गोहितमित्यत्रावादेशः स्यादिति दिक् । जगृह इति । कित्वात्परत्वात् 'पुगन्त-' इति गुणे प्राप्ते 'ऋदुपधेभ्यः-' इति वातिकारिकत्त्वे गुणाभावः । शल इगुपधा। शल इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् , अतिप्त । इगिति किम् , अगाढ । अनिटः किम् , श्रौहिष्ट । क्सस्याचि । अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः । तडीति तु केचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः । अन्ये तु 'लुग्वा दुह-' इत्यत आत्मनेपद इत्यपकर्षणात्तीति