________________
१६० ] सिद्धान्तकौमुदी।
[ भ्वादि. गाहिता । २३३५ ढो ढे लोपः। (८-३-१३) ढस्य लोपः स्याद् ढे परे। गाढा । गाहिष्यते, घाच्यते । गाहिषीष्ट, धाक्षीष्ट । अगाहिष्ट, अगाढ अघाक्षाताम् अघाक्षत । अगाढाः । अघावम् । अघाक्षि । गृहू ६५० ग्रहणे । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५६३) इति भष्भावेन गस्य घः, षढोः-' इति ढस्य कः, सस्य षः। जगाहिदवे जगाहिध्व इति । इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः । इडभावे त्वाह जघादव इति । जगाह् ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भए घकारः, पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढलोपसूत्रं त्विहैव पठितुं युक्तम् । गाहितेति । इट्पक्ष रूपम् । इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथो?ऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ ढा इति स्थिते ढो ढे। 'ढः' इति षष्टयन्तम् । तदाह ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् । ढलोपे ष्टुत्वस्यासिद्धत्वं तु न, तथा सति ढलोपविधिवैयर्थ्यात् । घाक्ष्यत इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । घाक्षीष्टेति । आशीर्लिङि सीयुटि इडभावपक्षे हस्य ढः, गस्य भए घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इद,सस्य षः, तकारस्य ष्टुत्वेन टः। इडभावे त्वाह अगाढेति । अगाड् स् त इति स्थिते सिच इडभाव 'झलो झलि' इति लोपः। ढत्वधत्वष्टुत्वढलोपाः । सलोपात्पूर्व भष्भावस्तु न, भष्भावस्यासिद्धतया 'झलो झलि' इति सलोपस्य पूर्व प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वाद् भष दुर्वार इति शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणाभावादिति भावः । अघाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढाइति । थास् , सिच् , इडभावे सलोपः । ढत्वधत्व. ष्टुत्वढलोपाः । अघावमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वत्वष्टुत्वढलोपाः। ध्वममाश्रित्य ढलोपात्पूर्व भष्भावः। अघातीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भावः । अघावहि । अगाहिष्यत, अघाक्ष्यत । गृहूधातुरूदिद् वा मूर्धन्यः । जगाहिढ्वे, जगाहिये । इडभावे तु भष्भावः । ढो ढे लोपः। जघाट्वे । ढे किम् , ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढग्रहणे 'ष्टुना ष्टुः' इत्यस्य आश्रयात् सिद्धत्वं भवतीति सिद्धमिष्टमित्याहुः । अगाढेति । 'झलो झलि' इति सलोपः । ढत्वधत्वष्टुत्वढलोपाः । सिचो लोपात्पूर्व भष्भावस्तु न, असिद्धत्वात् । भष्भावस्तु सिज्लोपानन्तरमपि न भवति सकारपरत्वाभावात् । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सिच्परत्वाद्भभावो दुरि इति शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणा