________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५६ प्रणासवे । णसे ६२७ कौटिल्ये । नसते । भ्यस ६२८ भये । भ्यसते । बभ्यसे । प्राङः शसि ६२६ इच्छायाम् । भाशंसते। पाशशंसे । प्रसु ६३० ग्लसु ६३१ अदने । जग्रसे । जग्लसे । ईह ६३२ चेष्टायाम् । इहांचक्रे । वहि ६३३ महि ६३४ वृद्धौ वंहते । ववहे । मंहते । अहि ६३५ गतौ। अंहते । पानंहे । गर्ह ६३६ गदह ६३७ कुत्सायाम्। जगहें । जगल्हे । बर्ह ६३८ बल्ह ६३६ प्राधान्ये । पोष्ठयादी । वह ६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठयादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ट्यादितां चाहुः । प्लिह ६४२ गतौ । पिप्तिहे । वेह । ६४३ जेह ६४४ बाहृ ६४५ प्रयत्ने । प्रायो दन्त्योष्ठयादिः । अन्त्यः केवलोष्ठयादिः। उभावप्योष्ठयादी इत्येके । दन्त्योष्ठयादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे । दाहृ ६४६ निद्राक्षये। निक्षेपे इत्येके। का ६४७ दीप्तौ । चकाशे। ऊह ६४८ वितर्के । ऊहांचके। गाहू ६४६ विलोडने । गाहते । जगाहे । जगाहिये, जघाने । जगाहिढवे, जगाहिध्वे,जघावे। कासांचक इति । कास्प्रत्ययादित्याम्। णासृधातुर्गसधातुश्च णोपदेशः। आङः शसीति । प्राङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काभ्धातुवर्ज घुषि कान्तीत्यतः प्राग् इकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहधातुरिदुपधः । ऊह वितर्क इति । युक्त्या अर्थनिर्णयो वितर्कः । 'अनुक्कमप्यूहति पण्डितो जनः' इत्यत्र तु अनुदात्तत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाहधातुरूदित्त्वाद्वेट् , तदाह जगाहिषे, जघाक्ष इति। इडभावे जगाह से इति स्थिते हो ढः, 'एकाचः-' हस्वस्य विकल्पितत्वात् । णस कौटिल्ये । लिएिनमित्तादेशादित्वाभावादेत्वम् । नेसे । प्राङः शसि । शंसु स्तुताविति तु परस्मैपदिषु वक्ष्यते । असु ग्लसु । 'उदितो वा' इति क्त्वायां वेट । प्रसित्वा । प्रस्त्वा । 'यस्य विभाषा' इति नेट् । प्रस्तः । वेह जेह वाह । आद्य इति । वेहतरति प्रत्यये वेहत्शब्दो निपातितः । 'पोटा. युवति-' इति सूत्रे इति भावः । वेहद्गगर्भोपघातिनी। अन्त्य इति । बाहुशब्दस्य भुजपर्यायस्य 'क्षुब्धस्वान्तध्वान्त-' इति निपातितस्य बाढशब्दस्य च निर्विवादत्वादिति भावः । दन्त्योष्ठयादी इति । उभावपीत्यनुषज्यते । अनुदात्तत्त्वकृतमात्मनेपदमनित्यम् । तेन 'ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः' इति सिद्धम् । न चात्रासिंगतिः । धातूनामनेकार्थत्वात्प्रस्रवणार्थकत्वे बाधकाभावादित्याहः। ऊह । कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इति । अत्राहुः-अनुदात्तेत्त्वलक्षणस्य तडोsनित्यत्वान्न दोष इति । गाहू । ऊदित्त्वादिड् वा । इडभावे ढत्वम् । 'एकाचः-' इति भषभावः । षढोः कः सि' इति कः । कात्परस्य षत्वम् । जघाटे । 'विभाषेटः' इति