________________
१५८ ] सिद्धान्तकौमुदी।
[ भ्वादिश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्स्यालिङ्गनहिंसादानभाववृद्धिषु । अवति । भाव । मा भवानवीत् । धावु ६०१ गतिशुद्धयोः । स्वरितेत् । धावति, धावते । दधाव, दधावे ।
___ अथोष्मान्ता प्रात्मनेपदिनः । धुक्ष ६०२ धिक्ष ६०३ सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे। धिक्षते । दिधिः । वृक्ष ६०४ वरणे। वृक्षते । ववृत्ते । शिक्ष ६०५ विद्योपादाने । शिक्षते । भिक्ष ६०६ भिक्षायामलामे लाभे च । भिक्षते । केश ६०७ अव्यक्तायां वाचि। बाधने इति दुर्गः । वेशते । चिक्लेशे । दक्ष ६०८ वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे । दीक्ष ६०६ मौएडये. ज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीले । ईक्ष ६१० दर्शने । ईक्षांचके । ईष ६११ गतिहिंसादर्शनेषु । ईषांचक्रे । भाष ६१२ व्यक्तायां वाचि । भाषते । वर्ष ६१३ स्नेहने । दन्त्योष्ठयादिः । ववर्षे । गेषु ६१४ अन्विच्छायाम् । ग्लेष इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे । पेष ६१५ प्रयत्ने । पेषते । जेष ६१६ णेष ६१७ एष ६१८ प्रेष ६१६ गतौ। जेषते । नेषते। एषांचके । पिप्रेषे । रेषे ६२० हेषु ६२१ हेषु ६२२ अव्यक्त शन्दे । श्राद्यो वृकशब्दे । ततो द्वौ अश्वशब्दे । रेषते । हेषते । हृषते । कास ६२३ शब्दकुत्सायाम् । कासांचके। भास ६२४ दीप्तौ। बभासे । णास् ६२५ रास ६२६ शब्दे । नासते । चेति । कृविरित्यर्थः । अव रक्षणेति । स्वाम्यर्थ ऐश्वर्यम् । मा भवानवीदिति । 'नेटि' इति न वृद्धिः। मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः। धावु गतीति । उदिदयम् । खरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदम् । अन्यथा परस्मैपदमिति भावः । अथोष्मान्ता इति । तत्र धुक्षेत्यारभ्य कामधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्ष मौएज्येति । पञ्चार्थाः। णेषधातुर्णोपदेशः। कासृधातुमारभ्य ईहधातोः प्राक् सकारान्ताः । गणितत्वात् । भिक्ष । याच्यालाभालाभास्त्रयोऽर्थाः। स्वामी तु 'क्लेशेऽव्यक्तायां वाचि च' इति पठित्वा इमावपि भिक्षधातोराविति मन्यते । क्लिश उपताप इति दिवादौ । क्लिशू विबाधन इति कयादौ । दीक्ष । पञ्चार्थाः । ईष गति । 'गुरोश्च हलः' इत्यप्रत्यये टाप् । ईषा, मनस ईषा मनीषा । शकन्ध्वादिः । मनीषामभिनिविष्टं मनीषितम् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति णिचि तदन्तात् क्तः । ईष उच्छे इति तु परस्मैपदिषु । ह्रस्वादयस्त्रयः । इष गतौ दिवादिः । इष इच्छायां तुदादिः । इष भाभीक्ष्ण्ये ऋथादिः । कासांचक इति । 'कास्प्रत्ययात्-' इत्याम् । भास दीप्तौ । अस्य ऋदित्त्वं भ्राजतेरिव तड्मात्रफलकम् । 'भ्राजभास-' इत्यादिनोपधा