________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५७ परस्य हेलुंक्स्यात् । धिनु । नित्यत्वादुकारखोपापूर्वमाट् । धिनवाव धिनवाम । जिन्वतीत्यादि । रिवि १६५ रवि १६६ धवि ५६७ गत्यर्थाः । रिएवति । रण्वति । धन्वति । कृवि ५१८ हिंसाकरणयोश्च । चकारादती । कृणोति इत्यादि धिनोतिवत् । अयं स्वादौ च । मव ५१६ बन्धने। मवति । मेवतुः मेवुः । श्रमवीत् , प्रमावीत् । अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशअङ्गस्य विशेषणम् । तदन्तविधिः । तदाह असंयोगेति । प्रत्ययोकार इति । प्रत्ययसंबन्धी उकार इत्यर्थः। प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुमः इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्यय इति किम् ? युवः युमः । 'असंयोगपूर्वात्' इति किम् ? शक्नुवः शक्नुमः। धिन्वः, धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत श्राह मिपि विति । दिधिन्व । धिन्विता । धिन्विष्यति । धिनोतु । उतश्च । हेर्लुक्स्यादिति । 'चिणो लुक' इत्यतः 'अतो हेः' इत्यतश्च तदनुवृतेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेनिभावम् 'पाडुत्तमस्य-' इत्याडागमंच बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यरस्याम्-' इति लोपमाशङ्कयाह नित्यत्वादुकारलोपात् पूर्वमाडिति । निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोः उकारलोपस्याप्रसक्ती आटः पित्त्वेन ङित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः। अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति । धिविवद्रूपाणीति भावः । अयं स्वादौ असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम् । अक्ष्णुवः अपणुम इत्यादावनिष्टाभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम् 'उतश्च-' इति सूत्रेऽपि अणुहीत्यत्र दोषाभावेऽपि अश्नुहीत्यत्रातिप्रसाः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं न कृतमित्याहुः। अश्नुहीति परस्मैपदं यद्यपि लोके दुर्लभम , तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् । प्राप्नुहीति पाठस्तूचितः । कृवि । अयमिति । कृणोतीत्यादिरित्यर्थः । स्वादौ हि कृवीत्ययं धातुर्न पठ्यते, किंतु कृञ् हिंसायामिति । तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः । अव रक्षणे । एकोनविंशतिराः । कान्तिः शोभा। दीप्तिस्तेज इत्याहुः । तृप्तिरिच्छानाशः । स्वाम्यर्थः स्वामित्वम् । हिंसा हननम् । आदानं ग्रहणम् । न चात्र दानमेवार्थोऽस्त्विति वाच्यम् , 'भागे वृद्धौ ग्रहे वधे' इत्येवमर्थानां विशिष्य बोपदेवेन