________________
१५६ ]
सिद्धान्तकौमुदी। [भ्वादिमूर्धन्योष्मादिरित्येके । सेवने इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । हिवि २११ दिवि ५६२ धिवि ५६३ जिवि ५६४ प्रीणनार्थाः । हिन्वति । दिन्वति । २३३२ धिन्विकृण्व्योर च । (३-१-८०) अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोपः' (सू २३०८) तस्य स्थानिवद्भावाल्लघूप. धगुणो न । उप्रत्ययस्य पिरसु गुणः। धिनोति धिनुतः धिन्वन्ति । २३३३ लोपश्चास्यान्यतरस्यां म्वोः। (६-४-१०७) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्याद् म्वोः परयोः । धिन्वः, धिनुवः धिन्मः, धिनुमः । मिपि तु परत्वाद् गुणः । धिनोमि । २३३४ उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात् पिविमिवीत्यादय इदितः । धिन्विकृण्व्योः । अ इति लुप्तप्रथमाकम् । धिविकृरव्योः कृतनुमोः धिन्विकृरवीति निर्देशः । 'तनादिकृभ्य ः' इत्यत उरिति चकारादनुकृष्यते । 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्वधातुके यक्' इत्यतः सार्वधातुक इति च, तदाह अनयोरित्यादिना । वकारस्याकारः, धिन् अउ ति इति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाकारयोविधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या प्रार्धधातुकोपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनत्यत आह तस्येति । वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्वं न स्यादिति भावः । तथा च धिनु ति इति स्थिते आह उप्रत्ययस्येति । धिनुत इति । धिविधातोर्नुमि तसि उप्रत्यये वकारस्य अकारादेश अतो लोपे तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व इत्यस्माद् मिः । झोऽन्तः । उप्रत्ययः। वकारस्य प्रकारः । अतो लोपः । उकारस्य यणिति भावः। अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं 'भोभगो-' इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि । लोपश्च । 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्त उकारः अस्येत्यनेन पराभृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते। असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वति । स च भावः । धिन्विकृण्व्योर च । 'अलोऽन्त्यस्य' इति वकारस्याकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः । अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति, तथाप्यार्ध. धातुकोपदेशे तदस्त्येव । 'धिन्विकृराव्योर च' इति श्रुतत्वाद् अकारादेशे कृते चानुकृष्टस्य पश्चाजायमानत्वादिति भावः । लोपश्चा । यः प्रत्ययोकार इति ।