________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५५
1
( ७-३-५७ ) जयतेः सन्तिग्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय जिग्यतुः जिग्युः । जिगयिथ, जिगेथ । जिगाय, जिगय जिग्यिव जिग्मि । जेता । जीयात् । श्रजैषीत् । जीव ५६२ प्राणधारणे । जिजीव | पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये । पिपीव | मिमीव । तितीव । निनीव । चीवु ५६७ देवु ५६८ निरसने । उर्वी ५६६ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसार्थाः । ऊर्वांचकार । 'उपधायां च ' ( सू २२६५ ) इति दीर्घः । तुतूर्व । गुर्वी ५७४ उद्यमने । गूर्वति । जुगूर्व । मुर्वी ५७५ बन्धने । पुर्व ५७६ पर्व ५७७ मर्व ५७८ पूरणे । चर्व ५७६ अदने । भर्व ५८० हिंसायाम् । कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्पे । अर्व ५८४ शर्व १८५ पर्व ५८६ हिंसायाम् । श्रानर्व । शर्वति । सर्वति । इवि ५८७ व्याप्तौ I इन्वति । इन्वांचकार । पिवि १८८ मिवि ५८६ णिवि ५९० सेचने । तृतीयो ष्टुत्वनिवृत्तौ रूपमाह तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सन्लिटोर्जेः । ' अभ्यासाच' इति सूत्राद् अभ्यासादित्यनुवर्तते । 'चजोः कु घिराण्यतो:' इत्यस्मात् कु इति च । सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति तदाह सन्लिरिनमित्तो योऽभ्यास इत्यादि । सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यङ्लुगन्तात् सनि जेजयिषति इत्यत्र कुत्वं स्यात् । अतः सन्लिरिनमित्तो योऽभ्यास इति व्याख्येयमिति माधवः । जिगायेति । गलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद् गुणाभावो लिटि 'एकाच - ' इति इग्निषेधं बाधित्वा कादिनियमादिटि प्राप्ते, थलि 'अचस्तास्वत् -' इति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः, तदाह जिगयिथ, जिगेथेति । जिग्यथुः । जिग्य । 'गलुत्तमो वा' इति मत्वा आह जिगाय, जिगयेति । क्रादिनियमादिटं मत्वा श्रह जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु । श्रजयत् । श्रशीर्लिङि 'प्रकृत्सार्वधातुकयोः-' इति दीर्घ मत्वा श्राह जीयादिति । श्रजैषीदिति । 'सिचि वृद्धिः-’ इति वृद्धिरिति भावः । अजेष्यत् । पर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम्, तदाह इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादामिति भावः । न्मूत्ररेतांस्यप्सु न निक्षिपेत्' इत्यत्र पृषोदरादित्वात्पक्षे दीर्घ ईकार इत्याहुः । सन्तिटोर्जेः : । सन्लिरिनमित्त इति । यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदा 'येन नाव्यवधान -' न्यायेन प्रकृतिव्यवधानं सोढव्यमेव परं तु यङ्लुगन्तात्सनि जेययिषतीत्यत्र कुत्वं स्यात् न च तन्माधवप्रन्थसंमतमिति
।