________________
१५४ ] सिद्धान्तकौमुदी।
[ भ्वादिफेलतुः फेलुः । चुल्ल ५३१ भावकरणे । भावकरणमभिप्रायाविष्कारः । फुल्ल ५३२ विकसने । चिल्ल ५३३ शैथिल्ये भावकरणे च । तिल ५३४ गती। तेलति । तिल्ल इत्येके । तिल्लति । वेलु ५३५ चेल ५३६ केल ५३७ खेल ५३८
वेल ५३६ वेल्ल ५४० चलने । पञ्च ऋदितः । षष्ठो लोपधः । पेल ५४१ फेल ५४२ शेलु ५४३ गतौ । षेलु इत्येके । स्खल ५४४ संचलने । चस्खाल । अस्खालीत् । खल ५४५ सञ्चये । गल ५४६ अदने । गलति । अगालीत् । षल २४७ गतौ । सलति । दल ५४८ विशरणे । श्वल ५४६ श्वल्ल ५५० आशुगमने। शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् । खोल ५५१ खोक्रं ५५२ गतिप्रति. घाते । खोलति । खोरति । धो; १५३ गतिचातुर्ये । धोरति । सर ५५४ छद्मगती । तस्सार । अत्सारीत् । क्मर ५५५ हूर्छने । चक्मार । अभ्र ५५६ वन ५५७ मभ्र ५५८ चर ५५६ गत्यर्थाः। चरतिर्भक्षणेऽपि । अभ्रति । पानभ्र। मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपस्वाभावान वृद्धिः । ष्ठिवु ५६० निरसने । 'ष्ठिवुनमु-' (सू २३२० ) इति दीर्घः। ठीवति । अस्य द्वितीयो वर्णस्थकारष्ठकारो वेति वृत्तिः। तिष्ठेव तिष्ठिवतुः तिष्ठिवुः । टिष्ठेव टिष्ठिवतुः टिष्टिवुः। 'हलि च' (स ३५४) इति दीर्घः । ष्ठीव्यात् । जि ५६१ जये। अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति। २३३१ सन्लिटोर्जेः । विति । भि फलेति पूर्व पठितम् । अनुबन्धभेदात्पुनः पाठः । खोल खोज्र इति। द्वितीयो रेफान्तः । ऋदित् । इत आरभ्य ठिवेः प्राग् रेफान्ताः । धोब्र गतिचातुर्य इति । अश्वगतिविशेष इत्यर्थः । रेफान्तोऽयम् । ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः। क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः । उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग् वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह ष्ठिवुलम्वितीति । ल्युटि तु शित्परकत्वाभावाद् दीर्घाभावे लघूपघगुणः। ठीवनमिति तु पृषोदरादित्वात् समाधेयम् । अस्यति । टिवुधातोः द्वितीयो वर्णः थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयम् । केवलदन्त्यथकारपरकसादित्वात् षोपदेशत्वेऽपि न सत्वम् , 'सुब्धातुष्टिवु-' इति निषेधात् । लिटि तु 'शपूर्वाः खयः' इति षकारवकारयोनिवृत्त्या इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल नेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । घोर्ऋ । धोरितकमश्वानां गतिविशेषः। निष्टान्तात्संज्ञायां कन् । त्सर छद्मगतौ । छद्मना कपटेन गतिः छद्मगतिः । क्मर हर्छने । हुर्छनं कौटिल्यम् । ष्ठिवु निरसने । अस्य ल्युटि ठेवनम् । ठीवनाऽसृक्शक