________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५३ निषेधस्य 'श्रतो हलादेः-' (स् २२८४) इति विकल्पस्य चापवादः । मा भवानालीत् । श्रयं स्वरितेदित्येके । तन्मते अलते इत्याद्यपि । भि फला १६ विशरणे । 'तृफल-' (सू २३०१) इत्येत्वम् । फेलतुः फेलुः । अफालीत् । मील ११७ श्मील ५१८ मील ११६ चमील ५२० निमेषणे । निमेषणं संकोचः। द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः। पील ५२१ प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । णील १२२ वणे । निनील । शील १२३ समाधौ। शीलति। कील १२४ बन्धने । कूल ५२५ प्रावरणे । शूल १२६ रुजायां संघोषे च । तूल ५२७ निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिनिस्सारणम् । तुतूल । फूल ५२८ संघाते । मूल ५२६ प्रतिष्ठायाम् । फल ५३० निष्पत्तौ । सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणे अतिव्याप्तिवारणार्थत्वात् । त्रि फलेति । विशरणं शिथिलीभावः । 'आदिजिटुडवः' इति मिरित् । 'जीतः क्तः' इति प्रयोजनम् । 'आदितश्च' इति इम्निषेधार्थमादित्त्वम् । लिएिनमित्तादेशादित्वादप्राप्ते श्राह तफलेति । मील श्मीलेति । निमेषणं नेत्रसंकोचः । संकोच इति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्तातदनुरोधेनान्तशब्दस्य समीपवाचित्वमत इत्यस्य चानुवृत्तिः स्वीकृते इति बोध्यम् । अतः समीपाविति किम् , अखोरीत् । अमीलीत् । लान्तस्याङ्गस्य किम् , श्वल्ल आशु गमने । अश्वल्लीत् । अत्र अकारसमीपो यो लकारः स नाङ्गस्यान्तः, यस्त्वजस्यान्तः स तु नाकारस्य समीपः । ननु लेत्यस्य लुप्तषष्टीकत्वाभ्युपगमेऽप्यन्तशब्दस्यावयव. वाचित्वं स्वीकृत्य अङ्गस्यान्तं यद् लं तस्यातः तत्समीपस्यातो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिनापेक्षितेति चेत् । अत्राहुः-'हलन्त्यम्' इति सूत्रे मनोरमायां 'सामीप्यं षष्ठयर्थः' इति पक्षस्य निराकरणात्तदनुरोधेनात्रात इत्यस्यावृत्तिराश्रितेति । अत्र केचित्-'अतो लान्तस्य' इत्यत्र लेति लुप्तसप्तमीकम् । अथवा 'तो लान्त' इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा च 'अङ्गस्यान्तं यद् लूं तस्मिन्परेऽव्यवहितस्यातो वृद्धिरिति व्याख्यानसम्भवान तन्त्रावृत्त्याद्याश्रयणक्लेशः । न चाङ्गस्य विशेष्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेन ‘पदाङ्गाधिकारे तस्य च तदन्तस्य च' इति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम् , 'अल्लोपोऽनः' इति सूत्रेऽङ्गावयवोऽसर्वनामस्थानेत्येवं भाष्यकारादिभिर्विशेषणतया व्याख्यानात्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिरित्याहुः । नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेन नेटीत्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्त सर्व बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः। मील संकोच