________________
१५२ ] सिद्धान्तकौमुदी।
[ भ्वादि. वृद्धिः । शुख्य ५१३ अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वा अभिषवः, स्नानं च । शुशुच्य । चुच्य इत्येके । हय ५१४ गतिकान्त्योः । जहर्य । अल १११ भूषणपर्याप्तिवारणेषु । अलति । पाल। २३३० अतो ल्रान्तस्य । (७-२-२) र इति लुप्तषष्ठीकम् । अतः समीपौ यो लौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि ' (सू २२६८ ) इति प्राग् यकारान्ताः । अल भूषणेत्यारभ्य खो» प्रतीघात इत्यतः प्राग् लकारान्ताः । अतो ल्रान्तस्य । 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् । 'अङ्गस्य' इत्यधि. कृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धे अन्तग्रहणं व्यर्थम् । तत्राह रेति लुप्तषष्टीकमिति । र अन्तस्य इति छेदः । ल च रति समाहारद्वन्द्वात् षष्ठयेकवचनं लुप्तम् । रस्यान्तस्येति सामानाधिकरण्येनान्वयः। अत इति व्यधिकरणषष्ठयन्तम् अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो रस्येति लभ्यते। रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः, ततश्च अत्समीपवतिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । अत इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति, तदाह अतः समीपावित्यादिना । अतः समीप इति किम् ? अखोरीत् । अमीलत् । ल्रान्तस्य इति किम् ? मा भवानतीत् । अतो वृद्धिरित्युक्वा अतः समीपावित्यनुक्लो तु अवधीत् अश्वल्लीदित्यत्रातिव्याप्तिः। अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः। नचात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः । पालीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यम् , शिथिलीकरणमिति । सोममभिषुणोतीत्यादौ दर्शनात् ।सुराया इति। तत्प्रकरणे 'संधानं स्यादभिषवः' इत्यमरोक्तेः । अतो ल्रान्तस्य । यद्यवयववचनेनान्तशब्देन बहुव्रीहिर चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् , अश्वल्लीदित्यत्रातिव्याप्तिश्च ! समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणिशल्ल. प्रभृतिष्वतिव्याप्तिः, अङ्गस्यातो लोः समीपत्वात् । लं च तदन्तश्चेति समीपवाचिनान्त: शब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह लुप्तषष्ठीकमिति । अन्तशब्दः समीपवाचीत्यभिप्रेत्याह अतःसमीपाविति । अतो वृद्धिः स्यादिति । इह अत इत्यस्य तन्त्रावृत्त्यादिकं खीकर्तव्यम् । अन्यथा प्रयोजनाभावादिक्परिभाषानुपस्थानेऽप्यलोन्त्यपरिभाषयान्त्यस्य स्यादिति भावः । यद्यपि 'श्रतो त्रस्य' इत्युक्केऽपि लान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थे स्वीकृते येन नाव्यवधान-' न्यायेनेष्टं सिध्यति, तथाप्यङ्गस्य सिचि परे अतो वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाश्वल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तप्रहणं कृतमिति ।