________________
प्रकरणम् ४३] बालमनोरमा-तत्वबोधिनीसहिता। [१५१ मेले । ममल्ले । भल ४६५ भन्न ४६६ परिभाषणहिंसादानेषु । बभले । बभन्ले । कल ४६७ शब्दसंख्यानयोः । कलते । चकले । कल्ल ४९८ अव्यक्त शब्दे । कल्लते । अशब्दे इति स्वामी, अशब्दस्तूष्णीभाव इति च । ते ४६६ देवृ ५०० देवने । तितेवे । दिदेवे । षेवृ ५०१ गेवृ १०२ ग्लेवृ ५.३ पे ५०४ मेवृ ५०५ म्लेवृ ५०६ सेवने । 'परिनिविभ्यः-' (सू २२७५) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद् भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेत क्लेवृ इत्यप्येके । रंवृ ५०७ प्लवगतौ । प्लवगतिः प्लुतगतिः । रेवते ।
अथावत्यन्ताः परस्मैपदिनः । मव्य ५०८ बन्धने । ममव्य । सूर्य.५०६ ईर्य ५१० ईय॑ ५११ ईर्ष्यार्थाः। हय ५१२ गतौ। अंहयीत् । यान्तत्वाब रूपम् । परिषेवत इत्यत्र ‘सात्पदाद्योः' इति निषेधे प्राप्ते आह परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात् षत्वमिति भावः । अयं सोपदेशोऽपीति ।
वृधातुरित्यर्थः। तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेख प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह प्लवगतिः प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः। मव्येत्यारभ्य अल भूषणेत्यतः लुक्श्लुलुपः' इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षे धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यातदा स्त्यायतिरिवायममि षोपदेशलक्षणे पर्युदस्येत, तदकरणानास्ति सोपदेश इति भावः । प्लव गताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् । प्लवेति धात्वन्तरत्वे 'विभाषा ङि रुप्लवोः' इत्यत्र प्लुवः पक्षे घविधानं व्यर्थ स्यात् । प्लवेत्येतस्माद् घनि प्राप्लावशब्दस्य सिद्धत्वात् । तथा 'स्रवति शृणोति-' इति सूत्रेण प्लवतेरभ्यासोकारस्येत्वविधानमपि व्यर्थ स्यात् । तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थ क्रियते, तच्च रूपं प्लवधातोः 'सन्यतः' इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति । 'यस्य हलः' इति लोपस्तु न भवति, यस्येति संघातग्रहणमिति सिद्धान्तितत्वात्।वर्णग्रहणे त्वर्थवग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि मव्यिता। अशिषि मव्यात् । 'हलो यमाम्-' इति धातुयकारस्य वा लोपः। सूर्य ईय॑ । णलि सुषू_ । ईदांचकार । ईर्ष्याचकार । एभ्यः विपि 'लोपो व्यो:-' इति लोपे, 'स्को:-' इति कलोपे जशत्वचर्वयोः सूर्ट ई । संयोगान्तलोपस्विह न भवति 'रात्सस्य' इति नियमात् । सूर्य आदर इति वक्ष्यते, तरयापि सूर्ट्स इत्येव रूपम्। हय गतौ । जहाय । हुण्यात् ।