________________
१५० ]
सिद्धान्तकौमुदी।
[भ्वादिः ४८५ शब्दे उन्दे च । चुक्नूये । चमायी ४८६ विधूनने । चचमाये । स्फायी ४८७ ओ प्यायी ४८८ वृद्धौ । स्फायते । पस्फाये। प्यायते । २३२७ लिड्यङोश्च । (६-१-२६ ) लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात् पीशब्दस्य द्वित्वम् । 'एरनेकाचः- (सू २७२) इति यण् । पिप्ये पिप्याते पिप्यिरे । २३२८ दीपजनबुधपूरितायिप्यायिभ्योऽन्यः तरस्याम् । (३-१-६१) एभ्यश्च्लेश्चियवा स्यादेकवचने तशब्दे परे। २३२६ चिणो लुक् । (६-४-१०४) चिणः परस्य तशब्दस्य लुक्स्यात् । अप्यायि, अप्यायिष्ट । ताय ४८६ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते। वताये । प्रतायि, अतायिष्ट । शल ४६० चलनसंवरणयोः । वल ४६१ वल्ल ४१२ संवरणे संचरणे च । ववले । ववल्ले । मल ४६३ मल्ल ४६४ धारणे । त्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओ प्यायीति । ओदि त्वम् 'अोदितश्च' इति निष्ठानत्वार्थम् । ईदित्त्वं तु 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम् । लिड्योश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी। 'प्यायः पी' इति सूत्रमनुवर्तते, तदाह लिटि यङि चेति । ननु प्यायलिटि द्वित्वं बाधित्वा परत्वात् पीभावे द्वित्वे 'एरनेकाचः-' इति यणि पिप्ये इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति, 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायादित्यत आह पुनः प्रसङ्गेति । 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः । दीपजन । 'च्लेः सिच्' इत्यतः च्लेरिति, 'चिण ते पदः' इत्यस्मात् चिण ते इति चानुवर्तते, तदाह एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः। विणो लुक् । चिण इति पञ्चमी, तदाह चिणः परस्येति । चिणः परश्च अर्थात् तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह अप्यायिष्टेति। ताय संतानेति । लुङि 'दीपजन-' इति च्लेश्चिणि तलोपे रूपमाह अतायीति। चिणभावे सिचि अतायिष्टेति रूपम् । शल चलनेत्यारभ्य ते इत्यतः प्राग् लान्ताः । तेव इत्यारभ्य रेवत्यन्ता वकारान्ताः । षेधातोः षोपदेत्वात्सत्वे सेवत इत्यादि क्नूयी शब्दे उन्दे च । उन्दः वेदनम् । लिडयडोश्च । यडि पेपीयते । दीपजन । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने-एते दिवादयः । चिणो लुक् । परस्य लुक् स्यादिति । तब्दस्येति कश्चित्पठ्यते, तदार्थिकार्थकथनम् । तशब्दे परतः चिणि विहिते चिणः परस्य जायमानो लुक् ‘प्रत्ययस्य