________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४६ प्रायिष्ट । प्रायिवम् , अायिध्वम् । २३२६ उपसर्गस्यायतौ। (-२-१६) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लस्वं स्यात् । प्लायते, पलायते। निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते दुलयते । प्रत्यय इति विणो रूपम् । अथ कथम् 'उदयति विततोलरश्मिरजी' इति माघः । इट किट कटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा 'अनुदात्तत्वलक्षणमात्मनेपदमनित्यम्' (१९७) । चक्षिङो डिरकरणाज्ज्ञापकात् । वादिस्वाद् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये। दय ४८१ दानगतिरक्षणहिंसादानेषु । प्रादानं ग्रहणम् । दयांचके । रय ४८२ गती। ऊयी ४८३ तन्तुसन्ताने । ऊयांचक्रे । पूयी ४८४ विशरणे दुर्गन्धे च। पूयते । पुपये। क्नूयी परस्य इषीध्वम इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् । प्रायिवमिति । लुडो ध्वमि, च्लेः सिचि, आटि वृद्धौ, सिच इटि, 'धि च' इति सलोपः । ध्वम इवान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः। अङ्गादिति निवृत्तमिति केचित् । उपसर्गस्यायती। अयताविति श्तिपा निर्देशः। 'कृपो रो लः' इत्यतो रो ल इत्यनुवर्तते, तदाह अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । पलायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु सान्तयो रेफान्तयोश्च निर्देश इति भावः । तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वाद् रस्य लत्वं स्यादित्यत आह प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरच्प्रत्यये प्रत्यय इति रूपम् । अयतिपरत्वाभावान लत्वमित्यर्थः । अयधातुमादाय प्लत्यय इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति । इधातोरिति शेषः। तस्य अनुदात्तेत्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः। झापकादिति । चक्षिङ्धातौ इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ ङित्करणं अनुदात्तेत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति । तस्य अनित्यत्वे तु नित्यात्मनेपदार्थ डित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति । वयधातोलिटि वादित्वादेत्वाभ्यासलोपयोरभाव सति वव्रये इति रूपमित्यर्थः । णयधातु. र्णोपदेश इति मत्वा आह प्रणयत इति। 'उपसर्गादसमासेऽपि-' इति णत्वमिति भावः। दयांचक्र इति । 'दयायासश्च' इत्याम् । ऊयांचक इति । इजादिलिटि लिलिहिल्वे लिलिहिध्वे । अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः।