________________
१४८ ]
सिद्धान्तकौमुदी। [ भ्वादिपदनिमित्ते । (७-२-३६) अत्रैवेट् । अक्रमीत ।
अथ रेवस्यन्ता अनुदात्तेतः । अय ४७४ वय ४७५ पय ४७६ मय ४७७ चय ४७८ तय ४७६ णय ४८० गतौ । अयते । २३२४ दयायासश्च । (३-१-३७) दय अय प्रास् एभ्य आम् स्यालिटि । अयांचके। अयिता। भयिषीष्ट । २३२५ विभाषेटः । (८-३-७६) इणः परो य इट् ततः परेषां पीध्वंलुलिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ़वम् , अयिषीध्वम् । अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुकमोरनुदात्तोपदेशानन्तर्भावादिटि सिद्धे वचनमिदं नियमार्थमित्याह अत्रैवेडिति । एवं च भावकर्मलकारेषु इरान भवति । उपस्नोष्यते जलेन । भावलकारोऽयम् । उपकंस्यते । कर्मणि लुट् । स्यः । प्रस्तुतमित्यत्र तु श्रयुकः कितीति निषेधान्नेट, आधधातुकस्येड्वलादेरिति इविधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । 'स्नुक्रमोरनात्मनेपदे' इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिष्यतीत्यसिद्धः स्येन व्यवधानात् । आत्मनेपदे परे नेडियर्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः। अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति । 'ह्मयन्त-' इति न वृद्धिः । इति कम्यन्ताः परस्मैपदिनो गताः। रेवत्यन्ता इति । रेव प्लवगतावित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग् यकारान्ताः । दयायासश्च । दय अय प्रास् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । कास्प्रत्ययादित्यत आम् लिटीत्यनुवर्तते, तदाह एभ्य आम् स्यालिटि इति । विभाषेटः । 'इणः षीध्वंलुङ्लिटां धः-' इत्यनुवर्तते । 'अपदान्तस्य-' इत्यतो मूर्धन्य इति च, तदाह इणः परो य इडित्यादि । इराणन्तादङ्गादित्यर्थः । अयिषीदवमिति । आशीलिंडो ध्वमः सीयुट् । यलोपः । आर्धधातुकत्वान्न सलोपः । इट् । यकारादिणः परो य इट् ततः परत्वाद् धस्य मूर्धन्यो ढः । इटः परभक्तत्वाद्यकारान्तादङ्गात् त्रुट छेदने, लष कान्तौ । क्रमः। 'ष्ठिवुलमुचमाम्-' इत्यतोऽनुवर्तनादाह परस्मै पदे शितीति । परस्मैपदे किम् , उपक्रमते । पराक्रमते । स्नुक्रमोः। अनात्मनेपदनिमित्ते इति । श्रात्मनेपदनिमित्ताभावे इत्यर्थः। अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम् , अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः। उभयोरपि भावकर्मकर्मव्यतिहारास्तको निमित्तम् , क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम् । स्नुक्रमोरुदात्तत्वादिटि सिद्धे नियमार्थोऽयमित्याह अत्रैवेडिति । अनात्मनेपदेति किम् , उपस्नोष्यते जलेन। उपक्रस्यते । निमित्त इति किम् , नौतीति नविता, स इवाचरति नवित्रीयते। इह प्यङ् आत्मनेपदनिमित्तं न तु लौतिरित्याहुः । लुब्लिटां धस्येति ।