________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४७ झमु ४७२ अदने । २३२० ष्ठिवुक्लमुचमा शिति । (७-३-७५) एषामचो दीर्घः स्याच्छिति । 'भोलि चम इति वक्तव्यम्' भाचामति । 'प्राडि' किम्-चमति । विचमति । अचमीत् । जिमि केचिस्पठन्ति । जेमति । क्रमु ४७३ पादवितेपे। २३२१ वा भ्राशभ्लाशभ्रमुक्रमुल्लमुत्रसित्रुटिलषः। (३-१-७०) एभ्यः श्यन्वा स्यात्कम्रर्थे सार्वधातुके परे। २३२२ क्रमः परस्मैपदेषु । (७-३-७६) क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति । क्राम्यति, कामति । चक्राम । क्राम्यतु, कामतु । २३२३ स्नुक्रमोरनात्मने'अतो हलादेः-' इति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्य 'अभ्यासे चर्च' इत्यनेन जः। मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासहखः । अयं शब्दे चेति । मीमृधातुरित्यर्थः। ष्ठिवुल्लमु । 'शमामष्टानां दीर्घः श्यनि' इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् , तदाह एषामचो दीर्घ इति । ष्टिवु क्लमु चम् एषां द्वन्द्वः। चैम् इत्यनेन प्रापर्वकस्य चमेर्ग्रहणम् । अचमीदिति । 'मयन्त-' इति न वृद्धिः। क्रमु पादेति । उदित्त्वम् 'उदितो वा' इति विकल्पार्थम् । वा भ्राश । 'दिवादिभ्यः श्यन्' इत्यतः श्यनिति, 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते, तदाह एभ्यः श्यन्वेत्यादि । क्रमः । दीर्घः स्यादिति । 'शमामष्टानाम्-' इत्यतः तदनुवृत्तेरिति भावः । शितीति । 'ष्ठिवुक्लमुत्रमाभ्-' इत्यतस्तदनुवृत्तेरिति भावः । कामस्विति । मध्यमपुरुषैकवचने कामेत्यत्र तु 'क्रमः परस्मैपदेषु' इति दी? भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वाद् नलुमतेति निषेधः शङ्कयः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तः। शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम्, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम्। स्नुक्रमोः । पञ्चम्यर्थे षष्टी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् , ष्ठिवुलमु । ष्ठीवति । क्लाम्यति । आङि चम इति । 'ठिवुक्लम्वाचमाम्' इति वृत्तिकारकोक्तपाठो ऽयुक्त इति भावः । जिमि केचिदिति । तथा च जेमनमिति भोजने प्रयुञ्जते । वा भ्राश । उभयत्र विभाषेयम् । अनवस्थानार्थो भ्रमिः । क्वमित्रसी च दिवादी, तेभ्यो नित्यं प्राप्ते इतरेषामप्राप्ते चारम्भात् । भ्राश भ्लाश दीप्तौ । फणादावेतौ । भ्रमु चलने भ्वादिः, ज्वलादिः फणादिरपि मनोरमायां पठ्यते, तद्रभसादिति नव्याः । भ्रम अनवस्थाने दिवादिः, पुषादिः, शमादिः, तत्र भ्वादेः भ्रम्यति भ्रमति । शमादेस्तु श्यनि दीर्घ भ्राम्यतीति त्रैरूप्यम् । क्लमु ग्लानौ, त्रसी उद्वेगे,
१ 'ष्टिवु क्लम्वाचमाम्' इति क्वचित् पाठः । २ वार्तिकमिदं बालमनोरमा कृतोऽसम्मतमिति भाति। ३ 'आचम्' इति क्वचित् ।