________________
१४६ ] सिद्धान्तकौमुदी।
[ भ्व दि. गत्वम् । ध्रणति । णोपदेशफलं यङ्लुकि । दन्ध्रन्ति । बण इत्यपि केचित् । बेणतः । बेणिथ । कनी' ४६० दीप्तिकान्तिगतिषु । चकान ।ष्टन ४६१ वन ४६२ शब्दे । स्तनति । वनति । वन ४६३ षण ४६४ संभक्ती । वनेरर्थभेदात् पुनः पाठः । सनति । ससान सेनतुः । २३१६ ये विभाषा। (६-४-४३) जनसनखनामात्त्वं वा स्याद्यादौ क्छिति । सायात् , सन्यात् । श्रम ४६५ गत्या. दिषु । कनी दीप्तिकान्तिगति-इत्यत्र गतेः परयोः शन्दसंभक्त्योरादिशब्देन संग्रहः । अमति । श्राम। द्रम ४६६ हम्म ४६७ मीम ४६८ गतौ । द्रमति । दद्राम । 'झयन्त- (सू २२६१ ) इति न वृद्धिः। अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च । चमु ४६६ छमु ४७० जमु ४७१ मिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह णोपदेशेति । नकारस्थानिकणोपदेशस्य 'नश्च' इत्यनुस्खारात्मकं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः। दन्ध्रन्तीति । ध्रण. धातोर्यलुकि द्वित्वे हलादिशेषे 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वेन अनुस्वारे परसवर्णे तस्यासिद्धत्वाद् णत्वाभावे नकारस्यैव श्रवणम् । खाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरिति भावः । कन दीप्तीत्यारभ्य श्रम गत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नः टकारः, तदाह स्तनतीति । वन षणेति। द्वितीयः षोपदेशः। ननु टन वन शब्दे इति वनेः पठितस्य पुनः पाठो व्यर्थ इत्यत आह अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा। ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्र ष्टन वन शब्दे संभक्ती चेत्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । ष्टन शब्दे इत्युक्त्वा वन संभक्तौ चेति पाठे तु गौरवमिति भावः । आशीलिङि विशेषमाह ये विभाषा । 'जनसनखनां सन्मलोः। इत्यतो जनसनखनामित्यनुवर्तते । 'अनुदात्तोपदेश-' इत्यतः क्ङितीति । ये इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविधिः । 'विड्वनोरनुनासिकस्यात्' इत्यत आदित्यनुवर्तते, तदाह जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म मीमृ गताविति । आद्योऽदुपधः । न वृद्धि. रिति । अद्रमीदित्यत्र हलन्तलक्षणायां वृद्धौ 'नेटि' इति निषिद्धायां 'मयन्त-' इत्यतः प्रतीक्षत इति भावः । णोपदेशफलमिति । अनुस्वार इत्यर्थः । दंध्रन्तीति । 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुक् । गत्यादिष्विति । गतिशब्दसंभक्तिवित्यर्थः । मीम् । ऋदित्फलं तु 'नाग्लोपि-' इति निषेधः । अमिमीमत् ।
१ बालमनोरमाकृत्तु 'कन' इति ईकाररहितं पाठं मनुते।