________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४५
विशेष्यं सनिहितं लघुनीत्यङ्गमेव वा ॥४॥ इति ब्याख्याविकल्पस्य कैयटेनैव वर्णनात् ।
णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥१॥
अथ क्रम्यन्ताविंशत्परस्मैपदिनः। प्रण ४४४ रण ४४५ वण ४४६ भण ४४७ मण ४४८ कण ४४६ कण ४५० व्रण ४५१ भ्रण ४५२ वण ४५३ शब्दार्थाः । अणति । रणति । वणति । वकारादिस्वादेत्वाभ्यासलोपो न । ववणतः । ववणिथ। धणिरपि कैश्चित्पठ्यते । धणति । प्रोण ४१४ अप. नयने । ओणति । प्रोणांचकार । शोण ४५५ वर्णगत्योः । शोणति । शुशोण । श्रोण ४५६ संघाते । श्रोणति । श्लोण ४५७ च । शोणादयस्त्रयोऽमी तालव्योष्मादयः । पैण ४५८ गतिप्रेरणश्लेषणेषु । प्रैण इति कचित्पठ्यते । पिप्रैण । ध्रण ४५६ शब्दे । उपदेशे नान्तोऽयम् । 'रषाभ्याम्-' (सू २३५) इति व्याख्याभेद किं प्रमाणमित्यत आह इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति । आदर्तव्यतेति शेषः। ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह ऐरग्लोपेऽपीति । अगितामिति । कमु कान्ता. वित्यादीनामपीत्यर्थः। सिद्धय इति । दीर्घसन्वत्त्वसिद्धयर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वाद् दीर्घसन्वद्भावौ न स्यातामित्यर्थः। इति घिणिप्रभृतयः कम्यन्ता दश गताः।
क्रम्यन्ता इति । 'कमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः । अनुनासिकान्ता इति शेषः । अण रणेति । इतः प्रभृति कन दीप्तावित्यतः प्राग मूर्धन्यान्ताः। प्रोण इति । ऋदित्त्वं 'नाग्लोपि-' इति निषेधार्थम् । भ्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह रषाभ्याकातन्त्रपरिशिष्टे त्वित्वदीर्घयोः अजीजागरदित्युदाहृतम् , तन्मतद्वयेऽप्यसंभवादुपेक्ष्यम्। व्यवस्थामेव विवृणोति णेरिति । सनिहितमिति हेतुगर्भविशेषणम्, लघुनीत्येतद् णेविंशष्यं भवति सनिहितत्वादित्यर्थः । अङ्गमेवेति । अस्य चपरे इत्यत्र आदेशरूपचढंशे आकाङ्क्षाभावेऽपि णाविति प्रत्ययांशे उत्थिता काङ्गत्वादिति हेतुः स्पष्ट एवेति भावः । कैयटेनैवेति । तथा च एकं हरदत्तमतम् , अपरं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्ष्या इति भावः । चङ्ग्रे इत्यावर्त्य अग्लोपविशेषणतयापि योजितं तस्य फलमाह णेरिति। णिश्रिद्रस्रषु परतोऽग्लोपित्वासंभवादिहापि चपर इत्येतावतैव णाविति लभ्यत इति बोध्यम् । अगितामपीति । पचिकमिशकिप्रभृतीनामित्यर्थः । नहीसंज्ञकानां लोपो णिचं