________________
१४४ ]
सिद्धान्तकौमुदी।
[ भ्वादिः
स्यात्स्याच्च व्यवस्थया।
जानीम इति तृतीयश्लोकार्थः । अङ्गस्यावयव इति पक्षेऽपि चकास्तौ विशेषमाह चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था वस्तुस्थितिः । व्यवस्थया पक्षद्वयेनेति यावत् । चपरे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य संनिहितं लघुनौत्येतद् विशेष्यम् । तथा च चपरे णौ यल्लघु इति प्रथमव्याख्यानं फलितम् । अजमेव वा विशेष्यम् । तथा च चपरे णौ यदङ्गमिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया. पक्षद्वयेन सन्वत्त्वं दीघश्चेत्युभयमिदं चकामृधातौ रायन्ते चङि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात् , स्याचेत्यन्वयः। तत्र चरे णौ यल्लविति व्याख्याने सति नैव उभयं स्यात् । चपरस्य णेः काम् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधानन्यायात्मोढव्यमेव । चपरे णो यदङ्गमिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्वादिति बोध्यम् । ननु चपरे णौ यल्लविति, चपरे णौ यदङ्गमिति च औMनवत् । इह सन्वद्भावस्तु नोपयुज्यते, णौ कृतस्यादेशस्य स्थानिवद्भावेन निषेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाभावादिति भावः । अर्थापयताविति । अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च चलेश्वङि दीर्घस्य 'सन्यतः' इतीत्वस्य च प्रवृत्तौ आर्तीथपदित्येव भवतीति भावः । अर्थ उपयाच्आयामित्यस्य तु चपरे णौ आथितेति भवति, न तु तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादिषु स्फुटीभविष्यति । उभयमिति । दीर्घः सन्वच्चेत्येतद्वयमित्यर्थः । न स्यात्स्याच्च व्यवस्थयेति । चपरे णौ यल्लष्विति व्याख्याने न स्यात् । चपरे णौ यदङ्गमिति व्याख्याने तु स्यात् । एवं च अचचकासत् अचीचकासदिति व्याख्याभेदेन रूपद्वयमित्यर्थः । ननु यथा चपरे णौ यल्लध्विति व्याख्याने 'येन नाव्यवधान-' न्यायेन श्रीपचदित्यादावेवोभयं भवति न त्वनेकव्यवाये । अचचकासदित्यादौ, तथा न्यायसाम्येन लघुनि योऽभ्यास इत्यत्राप्येकेनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत् । अत्राहुः-'अत्स्मृत्वर-' इतीत्वापवादेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्वस्य ज्ञापितत्वान्नोक्तदोषः। अतएव 'दीर्घो लघोः' इति सूत्रे लघोरिति सार्थकम् । माधवोऽपि जागृधातावित्थमेवाह । एवं च वदन् यथोद्देशपक्षमेगशिश्रियत् । तथाच ऊर्णधातौ यत्तेनोक्तमौMनवदित्यत्र 'दी? लघोः' इत्यभ्यासस्य दीर्घो न भवति चापरे णौ यदङ्गं तस्य योऽभ्यास इति सूत्रार्थात् । अत्र त्वङ्गावयवस्याभ्यासो न त्वङ्गस्येत्यादि । तत्र तस्याप्याग्रहो नास्तीति गम्यते । अतएव चकास्तावची. चकासदित्युदाजहार । तथा च मतभेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति।