________________
प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [१४३
किं स्वस्यावयवः कश्चित्तस्मादेकाचिवदं द्वयम् ॥ २॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ।
ऊौँ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ ॥३॥ नानेकात्वित्युक्तं विशदयति चकास्तीति श्लोकेन । 'चकास दीप्तौ' । अर्थमाचष्टे इत्यर्थे णिचि 'अर्थवेदयोः-' इति प्रकृतेरापुगागमे अर्थापिधातुः । 'ऊर्गुञ् आच्छादने' । एते त्रयः अनेकाका धातवः । आदिना 'जागृ निऽद्राक्षये' इत्यादिसंग्रहः । एभ्यो एयन्तेभ्यश्चङि अझं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदकाजवयव एव द्विरुच्यते । तस्माद् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्तयभावाद् एकाच्केष्वेवाङ्गेधु 'दी| लघोः' इति दीर्घः, 'सन्वल्लघुनि-' इति सन्वद्भावश्चेत्येतद्द्वयं भवति, नत्वनेकाका वित्यर्थः । नन्वेवं सति दिदरिद्रासति इत्यादौ 'हलादिः शेषः' इत्याद्यभ्यासकार्यमनेकाच्केष्वङ्गेषु न स्यात् कृत्स्नाङ्गस्य द्विरुक्तयभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्कय णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहितं भाष्ये । तदेतद् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तयभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यखारस्याद्यथोद्देशपक्षमालम्ब्याह वस्तुत इति । अङ्गस्येत्यवयवषष्टी। अङ्गावयवस्याभ्यासस्येति लभ्यते । ततश्च ऊर्गुञि ण्यन्ते चङि नु इत्येकदेशस्य द्वित्वेऽपि औyनुवदित्यत्र 'दीर्घो लघोः' इत्यभ्यासलघुर्दी/भवति। सन्वत्त्वं तु प्रयोजनाभावापेक्षितम् , अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्यासंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चङि णिलोपे उपधाह्रखे थप् इत्यस्य द्वित्वेऽपि आर्तीथपदित्यत्र सन्वद्भावात् 'सन्यतः' इत्यभ्यासस्य इत्त्वम् अभ्यासदीर्घश्चेति द्वयं भवतीति त्वकल्पनाया अन्याय्यत्वात् । नाङ्गं द्विरुच्यत इति । एवं च, अचचकासत् । आतथपत् , और्गुनवत् , इत्येव भवतीति भावः । अवयवः कश्चिदिति । हलादेः प्रथमावयवो द्विरुच्यते अजादेस्तु द्वितीयावयव इत्यर्थः । अहं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम् । किं च अस्मिपक्षे एकाच इत्यङ्गस्य विशेषणं शब्दतोऽपि सुलभम् , 'एकाचो द्वे-' इत्यधिकारादित्याशयेनाह तस्मादेकादिवति । स्यादेतत्-उक्तरीत्या ह्रखहलादिःशेषचुत्वादीन्यपि अनेकाक्षु न स्युः । न चेष्टापत्तिः, दिदासति, दिदरिद्रासति, जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात् । तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इति चेत् , तर्हि इहापि स एवोचितः। अर्थाधिकारपक्षस्यैवाभ्यर्हितत्वात् , वृत्त्यादिषु खीकृतत्वाचेत्यभिप्रेत्याह वस्तुत इति । ऊौँ दीर्घ इति । स्यादित्यपकृष्यते ।