________________
१४२] सिद्धान्तकौमुदी।
[भ्वादि. संज्ञायाः कार्यकालस्वादङ्गं यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वञ्च नानेकाविति माधवः ॥ १ ॥
चकास्त्यर्थापयत्यूोस्यादौ नाङ्गं द्विरुष्यते । सन्वत्त्वं न निमित्तम् । किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः। अतो दीर्घसन्वद्भावाविति पृथगुक्तिः ।
अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्रं 'दी? लघोः' इति सूत्रं च विशदयति संज्ञाया इत्यादिना । अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः । कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः । यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् । उद्देशाः संज्ञापरिभाषाशास्त्रानानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेश स्थितमेव तत्तद्विध्यपेक्षितं खं स्वमर्थ समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशषु संज्ञापरिभाषाभ्यां तदर्थस्यैवोपस्थितिः, न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः। 'सन्वल्लघुनि-' इति सूत्रे 'दी? लघोः' इति सूत्रे च अगस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्ष 'पूर्वोऽभ्यासः' इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोचारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी, कारकषष्ठया बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्रकृतिरूपम् , न तु तदेकदेशः । ततश्च कृत्स्नमङ्गं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैव 'दी| लघोः' इति दीर्घः 'सन्वल्लघुनि-' इति सन्वद्भावश्च भवति । एवं च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तः। अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचः अङ्गैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थः । परिभाषम्' इति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत् । तथा च 'पूर्वोऽभ्यासः' इत्यस्य 'सन्वल्लघुनि-' इत्यादिना सह पक्षद्वयेऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः । तत्रेदानी कार्यकालपक्षपाति माधवमतं तावद्वयाचष्टे संज्ञाया इत्यादिना श्लोकद्वयेन । अङ्गं यत्रेति । अयं भावः- 'सन्वल्लघुनि-' 'दीर्घो लघोः' इति सूत्रद्वये अगस्येत्यवनुवर्तते, अभ्या 'सस्येति च । तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम् । द्वे इन्यत्र च उच्चारणे इति विशेष्यसमर्पकमध्याह्रियते, तच्च कृदन्तम् , तद्योगादङ्गस्येति कर्मणि षष्ठी । तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावी स्त इति । अचीकरत् । अपीपचत् । युक्तं चैतत् । अस्येति षष्ट्या कारकविभक्तित्वसम्भवे तदुपेक्ष्य शेषषष्ठी