________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४१ लघोर्दीर्घः स्यात्सन्वद्भावविषये । अचीकमत । णिङभावपक्षे तु 'कमेश्च्लेश्चङ् वक्तव्यः' । पेरभावान्न दीर्घसन्वद्भावी । अचकमत। लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः। 'सन्वल्लघुनि चपरे-' इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते। तच्च प्राग्वदेव द्वेधा व्याख्येयम् । तथा च फलितमाह सन्वद्भावविषय इति । 'सन्यतः' इत्यत्र तपरत्वं स्पष्टार्थमिति 'दीर्घोऽकितः' इति सूत्रे भाष्ये स्पष्टम् । तथा च कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घ अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति । 'आयादय आर्धधातुके वा' इति णिको वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम्। णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तत्त्वात्तङि प्रथमपुरुषैकवचने च्लेश्चङि द्वित्वे हलादिशेषे अभ्यासचुत्वे अडागमे अचकमतेति रूपं वक्ष्यते । तत्र णरभावाद् 'दी? लघोः' इत्यभ्यासलघोर्दी? न भवति, तत्र लघुनि चपरेऽनग्लोप इत्यनुवर्त्य चपरे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाभावात् 'सन्यतः' इत्यभ्यासाकारस्य इत्त्वं च न भवतीत्यर्थः । 'दी? लघोः' इति दीर्घविधौ माक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानानोक्तदोषः । न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मानमिति वाच्यम् , तपरकरणस्यैव तत्र मानत्वात् । किं च अकारप्रहणमपि तत्र मानम् । अन्यथा सन इत्येव ब्रूयात् । तावताप्यधीषिषति प्रतीषिषतीत्यादावित्त्वप्रवृत्तिसिद्धेरिति । दी? लघोः । लघोरभ्यासस्येति । ननु अज्झल्समुदायस्याभ्यासस्य लघुसंज्ञा दुर्लभा 'हस्खं लघु' इति सूत्रितत्वात् । नैष दोषः । इमे हि न समानाधिकरणे षष्ठयौ कि तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घ इत्यर्थः । 'लघुनि चपरेऽनग्लोपे' इति सर्वमिहानुवर्तते । तच प्राग्वदेव द्वेधा व्याख्येयम् , तदाह सन्वद्भावविषय इति । हलादेरिति प्राचोक्तमिहोपेक्षितं निष्प्रमाणत्वात् । न हि मुनित्रयोक्तिं विना हलादेरिति व्याख्यातुमुचितम् । न चैवमौन्दिदत् प्राटिदित्यादौ दीर्घः स्यादिति शवयम् , अङ्गलघ्वोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राप्राप्तेः। चपरं हि यदङ्गम् उन्द इति न तदीयोऽभ्यासो न वा चपरणिच्परं यल्लघु तत्परः । एतेन
आट्टिटदित्यादिभाष्योदाहरणमेव 'हलादेः' इति व्याख्याने प्रमाणमिति केषांचिदुत्प्रेक्षापि प्रत्युक्ता । दीर्घाप्राप्त्येवोदाहरणसौष्टवस्योक्तत्वात् । लघोः किम् , 'क्षणु हिंसायाम् , अचिक्षणत् । शास्त्रेऽस्मिन् ‘कार्यकालं संज्ञापरिभाषम्' 'यथोद्देशं संज्ञा