________________
१४० ]
सिद्धान्तकौमुदी ।
[ भ्वादि सति । श्रथवा श्रङ्गस्य इति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् । २३१७ सन्यतः । ( ७-४-७६ ) अभ्यासस्यात इकारः स्यात्सनि । २३१८ दीर्घो लघोः । ( ७-४-६४ ) अभ्यासस्य न्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु गाविति न लभ्यते, श्रिद्रत्रषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतद् अभ्यासस्येत्यनुवृत्तेन अन्वेति । सन्वदिति सप्तम्यन्ताद्वतिः, तदाह अङ्गसज्ञानिमित्तमित्यादिना । अथवेति । श्रस्मिन्व्याख्याने चङ्परे इत्येतद् अङ्गस्यत्यत्रान्वेति न तु लघुनि । श्रङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति, तदाह चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपे असतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, अजजा गरदित्यत्र चङ्परे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देर्ण्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तर खण्डे चङ्परे णौ लघोर - भावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् उन्दिद् इत्येतत् तदीयोऽभ्यासश्वङमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृत कम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् । सन्यतः । सनि अत इति च्छेदः । ' अत्र लोपः -' इत्यतः श्रभ्यासस्येत्यनुवर्तते । 'भृञामित्' इत्यस्माद् इदिति, तदाह अभ्यासस्येति । किकम् श्रत इति स्थितम् । दीर्घो लघोः । 'अत्र तयोः पूर्वोऽभ्यास इत्यर्थः । अङ्गस्येति नावर्तत इति । श्रस्मिंस्तु व्याख्याने चङ्परे इत्येतावतैव णिरिति लभ्यते, त्रिद्रुस्रषु परेषु श्रङ्गत्वासम्भवादतो व्याचष्टे चङ्परे णौ यदङ्गमिति । चङ्परे इत्यस्यैव व्याख्यानं णाविति ज्ञेयम् । अनग्लोपे किम्, अचकथत् । सन्यतः । 'अत्र लोपोऽभ्यासस्य' इत्यतोऽभ्यासस्येति 'भृञामित् ' इत्यत इद्ग्रहणं चानुवर्तते, तदाह श्रभ्यासस्येत्यादि । तपरकरणं किम्, पापच्यतेः सन् । पापचिषंत । न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तपरकरणाभावेऽपि नोक्लातिप्रसङ्गः अभ्यासस्येह यङ्निमित्तत्वादिति वाच्यम्, तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तेः । न हि कार्थी निमित्तत्वेनाश्रीयते । यद्याश्रीयेत तर्हि 'द्विर्वचनेऽचि' इति निषेधेन रिस्शब्दस्य द्वित्वाप्रवृत्तावरिरिषतीत्यादि न सिध्येत् । नन्वेवं पिपक्षतीत्यादावव्याप्तिः । अभ्यासस्य सन्परत्वाभावात् । न च 'येन नाव्यवधान - ' न्यायेन सन्प्रवृत्त्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यम्, प्रतीषिषतीत्यादावभ्यासस्याव्यवह्नितसन्परत्वसंभवादुक्तन्यायस्याप्रवृत्तिरिति चेत् । अत्राहुः - सना धातु
1