________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१३६ हस्वः स्यात् । २३१५ चङि । (६-१-११) चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य । २३१६ सन्वल्लघुनि चपरेऽनग्लोपे। (७-४-६३) चङ्परे इति बहुव्रीहिः । अन्यपदार्थों णिः । स च 'अङ्गस्य' इति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चपरं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्य स्यारणावग्लोपेडस्थितम् । णौ चङि । अङ्गाधिकारादाह यदङ्गमिति । 'उपधायाः' किम् ? अचकाङ्क्षत् । 'चङि' किम् ? कारयति । 'यौ' किम् ? 'चङयपधाया' ह्रस्व इत्युच्यमाने अदीदपदित्यत्र दाधातोः ण्यन्ताद् लुङि चङि दा इ अत् इति स्थिते श्राकारस्य ह्रस्वे सति पुग् न स्यात् । णावित्युक्तौ तु प्राकारस्य णौ परत उपधात्वाभावान ह्रस्वः । 'द्विवचनेऽचि' इति निषेधस्तु न शङ्कयः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम् अत इति स्थितम् । चङि । 'एकाचो द्वे प्रथमस्य' इति 'अजादेद्वितीयस्य' इति चाधिकृतम् । 'लिटि धातोरनभ्यासस्य' इति सूत्रं लिटि इति वर्जमनुवर्तते, तदाह चडि पर इत्यादिना। तथा च कम् इत्यस्य द्वित्वे हलादि. शेषे क कम् अत इति स्थितम् । सन्वल्लघुनि । अनग्लोप इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मधारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयत्।ि ननु बहुव्रीह्याश्रयणेऽपि 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्या. सस्येत्यनुवृत्तौ चपरके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यो णिश्रिद्रुसभ्यश्चङि द्वित्वे अशिश्रियत् अदुव्वत् असुस्रवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्च 'दी? लघोः' इति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत श्राह अन्यपदार्थो णिरिति । तथा च चपरे णौ इति लभ्यते । अशिश्रियदित्यादौ च णेरभावाद् न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः 'अङ्गस्य' इत्यनुवृत्तं चेत्यर्थः । तत्र णावित्यावृत्तौ एकं लघुनीत्यत्रान्वेति । तथा च चङ्. परे णौ यल्लघु तस्मिन्परत इति लभ्यते । द्वितीयं तु अनग्लोपे इत्यत्रान्वेति। तथा च णौ परतो यः अग्लोपः तस्याभावे सतीति लभ्यते। अङ्गस्येत्यावृत्तौ एकं चपरे इत्यत्रान्वेति । निमित्तनिमित्तिभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चपरके वर्णे परे इति लभ्यते । चपरकश्च वर्णः अर्थाद् णेरिकार एव । न तु श्रिद्रस्रवामन्त्यवर्णः, तस्य अप्रत्ययत्वन अङ्गसंज्ञाप्रापकत्वाभावात् । एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठयसन्वल्लघुनि । चपर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुनुवामपि चपरत्वादत आह अङ्गसंशानिमित्तमिति । अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते
१ वाक्यमिदं प्रायोऽन्यत्र नोपलभ्यते ।