________________
१३८] सिद्धान्तकौमुदी।
[ भ्वादियण प्राटिटत् । गुणः कारणा । वृद्धिः कारकः । दीर्घः कार्यते । २३१४ णो चङ्यपधाया ह्रस्वः । (७-४-१) चपरे णौ यदङ्गं तस्योपधाया परानपि इयङादीन् णिलोपः अपवादत्वाद् बाधते, परापेक्षया अपनदस्य प्रबलत्वात् परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र श्रानेटीति व्यर्थम् । कारयितत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इ यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धर्वार्तिकमिदं व्यर्थमिति भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं चिकीर्ष्यादित्यत्र 'अकृत्सार्वधातुकयोः' इति दीर्घ च बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्यतो लोपो वृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतो लोपस्थारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षदिति । तक्षधातीर्ण्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वकत्वाद् ‘एरनेकाचः-' इति यणभावे इ यङि प्राप्ते पूर्वविप्रति. षेधाद् णिलोपै हलादिशेषे अडागम अततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोर्यन्ताद् आटि इत्यस्माद् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे 'एरनेकाच:-' इति यणं बाधित्वा पूर्वविप्रतिषेधारिणलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारगेति । स्त्रियाम्' इत्यधिकारे कृञ्धातोय॑न्तात् कारि इत्यस्माद् ‘ण्यासश्रन्थो युच्' इति युचि अनादेशे 'सार्वधातुकार्धधातुकयोः' इति गुणं बाधित्वा पूर्वविप्रतिषेधारिणलोपे स्त्रीत्वाट्टापि कारणेति रूपम् । वृद्धिरिति । उदाहरणसूचनम् । कारक इति । कृब्धातोय॑न्तात्कारि इत्यस्मारण्वुलि अकादेशे वृद्धिं बाधित्वा पूर्वविप्रतिषेधारिणलोपे रूपम् । दीर्घ इति। उदाहरणसूचनम् । कार्यत इति । कृञ्धातोय॑न्तात्कारि इत्यस्मात् कर्मणि लटि यकि 'अकृत्सार्वधातुकयोः' इति दीर्घ बाधित्वा पूर्वविप्रतिषेधारिणलोपः। तथा च प्रकृते काम् इ अ त इत्यत्र ‘एरनेकाचः-' इति यणं बाधित्वा णिलोरे काम् अ त इति णेरित्येतावति सूत्रे कृतेऽप्यार्धधातुक इत्यनुवृत्त्या आर्धधातुके परतो वर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयर्थ्य प्रसज्येत, तथा चानिडाद्यार्धधातुकं सर्वमप्यस्य विषयो न तु तिजन्तमेवेति । अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेन चिकीर्षक इत्यत्र वृद्धि चिकीर्ष्यादित्यत्र 'अकृत्सार्व-' इति दी, बाधित्वा पूर्वविप्रतिषेधेन 'अतो लोपः' इति लोपो भवतीत्याहुः । णौ चङ्यपधाया ह्रस्वः । उपधायाः किम , अचकाङ्क्षीत् ।