________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३७ वृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन' इति वार्तिकम् । णिलोपस्य तु पाचयतेः पाकि. रित्यादि क्रिजन्तमवकाश इति भावः । वस्तुतस्तु 'अनिर्टि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादरपवाद एवायम् । इयङ् अततक्षत् । इत्यस्य 'णेरनिटि' इत्यपेक्षया परत्वारिणलोपं बाधित्वा यणि प्राप्तेः सतीत्यर्थः । कृते तु यणि लोपो दुर्लभो णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् । ययस्थानिनमिकारम् अलरूपं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वन तत्र स्थानिवत्त्वासंभवात् । स्पष्टा चेयं रीतिः 'भोभगो-' इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । एयल्लोपाविति। णिलोप इयड्यण्गुणधृद्धिदीर्धेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत् , श्राटिटत् , कारणा, कारकः, कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयङ्यण्गुणवृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरकाशत्वादेव इयडादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम् । सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयात् इत्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकाशत्वादित्यत आह णिलोपस्य त्विति । पचधातो. णिचि उपधावृद्धौ पाचि इति ण्यन्तात् 'स्त्रियां क्लिन्' इति क्लिनि, 'तितुत्रतथसिसुसरकसेषु च' इति इएिनषेधे 'णेरनिटि' इति णिलोपे कुत्वे पाक्तिरिति स्थितिः । क्लिजन्तमिति पाठे तु 'विच् क्वौ च संज्ञायाम्' इति क्विच् बोध्यः। पाक्तिरिति कस्यचित्संज्ञा । अत्र इयादीनाम् अप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियादिप्राप्तौ तनिवृत्त्यर्थ वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह वस्तुतस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ ययणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावारिणग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत् । नैवं शङ्कयम् , इयादेशे ह्यन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्च 'अतो लोपः' इति सूत्रे भाष्ये स्थितम्। न चात्र कारणा कारक इत्यादौ गुणवृद्ध्योः कृतयोरन्तरजात्वादयादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियादेश एव दोष उक्त इति शङ्कयम् , 'वार्णादाङ्ग बलीयः' इत्ययायौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात् । एयल्लोपाविति । णिलोप इययणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन, अल्लोपस्तु वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तिसंभव एव नास्तीत्यत आह पाक्तिरित्यादि तिजन्तमिति । तत्र 'तितुत्र-' इतीरिनषेधादिति भावः । वचनसामर्थ्यादिति । अयं भावः