________________
१३६ ] सिद्धान्तकौमुदी।
[ भ्वादिल्विष्णुषु । (६-४-५५) आम् अन्त भालु प्राय्य इत्नु हष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामांचके । 'पायादय आर्धधातुके वा' (सू २३०५ ) । चकमे । कामयिता, कमिता। कामयिष्यते, कमिष्यते । २३१२ णिश्रितभ्यः कर्तरि चङ् । (३-१-४८) ण्यन्तात् श्रयादिभ्यश्च ब्लेश्चङ् स्यास्कर्बथै लुङि परे । प्रकाम् इ म त इति स्थिते। २३१३ णेरनिटि। (६-४-५१) अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परस्वाद् 'एरनेकाच:-' (सू २७२) इति याणि प्राप्ते। एयल्लोपावियङ्यण्गुणइति छदः । 'णेरनिटि' इत्यतो णेरित्यनुवर्तते, तदाह णेरयादेशः स्यादिति । तथा च कामयामित्यामन्तं स्थितम् । ततः 'कृञ्चानुप्रयुज्यते-' इत्यनुप्रयोगाल्लिडिति मत्वाह कामयांचक इति । पिङ प्रायादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्वि. कल्पमुक्तं स्मारयति आयादय इति । चकम इति । सेट्कोऽयम् । चकमिषे । चकमिध्वे । चकमिवहे । चकमिमहे । कामायतेति । लुटि णिपक्षे तासि इटि वृद्धौ गुणे अयादेश रूपम् । कामयताम् । अकामयत । कामयत । कामयिषीष्ट, कमिषीष्ट । अथ णिङन्तात् कामि इत्यस्माल्लुङः तादेशे च्लेः सिजादेशे प्राप्ते णिधि। णि श्रि द्रु स एषां द्वन्द्वः । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् । 'च्लि लुङि' इत्यतो लुगीति, 'च्लेः सिच्' इत्यतः च्लेरिति चानुवर्तते, तदाह ण्यन्तादित्या. दिना । चकावितौ। णेरनिटि । 'आर्धधातुके' इत्यधिकृतम् । अतो लोपः' इत्यस्माद् लोप इत्यनुवर्तते । अनिटीत्यस्य आर्धधातुकविशेषणत्वात् तदादिविधिः, तदाह अनिडादाविति । तथा च णिलोपे काम् अ त इति स्थिते परत्वादिति । ‘एरनेकाचः-' विभाषा' इति निषेधात्कान्तः । अयामन्ता । नामन्तेति सूत्रितेऽपि 'णेरनिटि' इति वक्ष्यमाणलोपस्य निषेधे गुणायादेशयोः सतोः कामयाचक्रे इत्यादिरूपाणि सिध्यन्त्येव. तथापि 'ल्यपि लघुपूर्वात्' इत्येवमर्थमयादेशवचनम् । प्रस्तनय्य, सङ्गमय्य । नह्यत्र गुणायादेशौ लभ्येते । पाम् , कारयामास । अन्त, गण्डयन्तो मण्ड पन्तः । 'तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्व' इत्यौणादिको झन् । 'झोऽन्तः' । 'स्पृहिगृहि-' इत्यालुच् , स्पृहयालुः । 'श्रुदक्षिस्पृहिगृहिभ्यः-' इत्यौणादिक श्राय्यः, 'स्पृहयाय्यः' । 'स्तनिहृषिपुषि-' इत्यौणादिक एव इत्नुच् , स्तनयित्नुः, ‘णेश्छन्दसि' इति इष्णुच् , 'वीरुधः पारयिष्णवः' । णिश्रिद् । च्लेः सिचोऽपवादः । णेरनिटि । पेरिति णिणिचोर्ग्रहणम् । एवमन्यत्रापि बोध्यम् । अनिटीत्यनेनाधिकृतमार्धधातुक इत्येतद्विशेष्यते । 'यस्मिन्विधिः-' इति तदादिविधिः। 'अतो लोपः' इत्यस्माल्लोप इति चानुवतते, तदाह, अनिडादावित्यादि । यणि प्राप्त इति । ननु परत्वादि