________________
१३४ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
1
वक्त्रसंयोगे । चुम्बति । पृभु ४३० षृम्भु ४३१ हिंसार्थों । सति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु षिभि इत्येके । सेभति । सिम्भति । शुभ ४३२ शुम्भ ४३३ भाषये । भासने इत्येके । हिंसायाम् इत्यन्ये । अथानुनासिकान्ताः । तत्र कम्यन्ता अनुदात्तेतो दश । घिणि ४३४ घुणि ४३५ घृणि ४३६ ग्रहणे । नुम् । ष्टुत्वम् । घिण्णते । जिधिरणे । घुण्यते । जुघुण्णे । घृण्णते । जघृणये । घुण ४३७ घूर्ण ४३८ भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । पण ४३६ व्यवहारे स्तुतौ च । पन ४४० च । स्तुतावित्येव संबध्यते पृथङ् निर्देशात् । पनिसाहचर्यात्पयेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु पणते, पेणे, पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थस्वादायप्रत्ययान्ताचात्मनेपदम् । पणायति । पण यांचकार, पेणे । पायितासि,
1
पृभु षृम्भु इति । ऋदुपधौ षोपदेशौ । सृभ्यादिति । आशीर्लिङि अनिदित्त्वान्नलोपः । षिभु षिभि इत्येक इति । आद्य इदुपधो द्वितीय इदित् । शुभ शुम्भेति । द्वितीयस्य श्राशीर्लिङि श्रनिदित्त्वान्नलोपः । इति गुपू इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः ।
1
कम्यन्ता इति । कमु कान्तौ इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति । द्वितीयस्य दीर्घपाठः स्पष्टार्थः, 'उपधायां च' इत्येव दीर्घसिद्धेः । केचित्तु घुर्णेति हखमेव पठन्ति । स्तुतावित्येवेति । न तु व्यवहार इत्येवकारार्थः । पृथङ्गिर्देशादिति । अन्यथा पण पन व्यवहारे स्तुतौ चेत्येव निर्दिशेदिति भावः । यद्यपि पृथङ्निर्देशो यथासंख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यम्, तथापि संप्रदायानुरोधादेव - मुक्तम् । पनिसाहचर्यादिति । पनधातुः स्तुतावेव वर्तते तत्साहचर्याद् 'गुपूधूपविच्छ-' इत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते, नतु व्यवहारार्थकः । श्रतः स्तुतावेव पणधातोरायप्रत्ययः। न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः । न च श्रायप्रत्ययान्तस्यानुदात्तेत्वं नेति शङ्कपम्, पणधातौ श्रुतस्यानुदात्तत्वस्य 'अनर्थक्यात्तदश - ' न्यायेन प्रायप्रत्ययान्ते अन्वयोपपत्तेरित्यत आह स्तुताविति । अनुबन्धस्य श्रनुदात्तात्मकस्य इत देशेऽपि 'एकादेश उदात्तेन-' इत्युदात्त एव, तकाराकारस्तु तास्यनुदात्तेन्ङिददुपदेशात् ' इत्यनुदात्तः । ततश्च 'उदात्तादनुदात्तस्य-' इति खरितो भवति । 'खरितात्संहितायामनुदात्तानाम्' इति न इत्यस्य एकश्रुतिः । श्रायप्रत्ययस्य अनदन्तत्वे नेदमिष्टं सिध्यतीति । स्तुतावेवेति । भट्टिस्तु व्यवहारेऽपि श्रयं प्रायुङ्क्त । 'न चोपलेभे वणिजं पणायाम्’