________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १३३
संतापे । धूपायति । धूपायांचकार, दुधूप । धूपायितासि, धूपितासि । जप ३६७ जल्प ३१८ व्यक्तायां वाचि । जप मानसे च । चप ३६६ सान्वने । षप ४०० समवाये । समवायः संबन्धः सम्यगवबोधो वा । सपति । रप ४०१ लप ४०२ व्यक्तायां वाचि । चुप ४०३ मन्दायां गतौ । चोपति । चुचोप । चोपिता । तुप
1
1
1
1
1 ४०४ तुम्प ४०५ त्रुप ४०६ त्रुम्प ४०७ तुफ ४०८ तुम्फ ४०६ त्रुफ ४१० त्रुम्फ ४११ हिंसार्थाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगास्परस्य लिटः कित्त्वाभावान्नलोपो न | 'किदाशिषि' ( सू २२१६ ) इति किरवान्नलोपः । तुष्यात् । ' प्रात्तुम्पतौ गवि कर्तरि' इति पारस्करादिगणे पाठात्सुद् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न, प्रतोतुम्पीति । श्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । श्राद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः । पर्प ४१२ रफ ४१३ रफि ४१४ अर्ब ४१५ पर्ब ४१६ लर्ब ४१७ बर्ष ४१८ मर्ब ४१ कर्ब ४२० खर्ब ४२१ गर्ब ४२२ शर्ब ४२३ पर्ब ४२४ चर्ब ४२५ गतौ । श्राद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । श्रानर्बं । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । कुबि ४२६ श्राच्छादने । कुम्बति । लुबि ४२७ तुबि ४२८ अर्दने । लुम्बति । तुम्बति । चुबि ४२६ 'नेटि' इति हलन्तलक्षणवृद्धेर्निषेधः । इडभावे तु इटः परत्वाभावाद् न सिज्लोप इत्याह अगौप्सीदिति । 'वदव्रज -' इति वृद्धिः । श्रगोपायिष्यत् अगोपिष्यत्, अगोप्स्यत् । धूप संताप इति । 'गुपूधूप-' इत्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति । षोपदेशोऽयम् । चुप मन्दायामिति । चवर्गप्रथमादिरयम् । चवर्गद्वितीयादिस्त्वनिट्कः । तुप तुम्पेति । अष्टावप्युदुपधाः तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवान्त इति मूले स्पष्टीभविष्यति । तुतुम्पतुरित्यत्र नलोपमाशङ्कयाह संयोगादिति । आशीर्लिङि विशेषमाह किदाशिषीति । प्रात्तुम्पताविति । शितपा निर्देशोऽयम् । प्रात् तुम्पधातौ परे सुद् स्याद् गवि कर्तरि सतीत्यर्थः । तुम्पधातोः सुड् श्राद्यवयवः । सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह शितपा निर्देशाद्यङ्लुकि नेति । श्तिपा शपाऽनुबन्धेनेत्युक्तेरिति भावः । लोपकरणे फलाभावादुच्चारणार्थ एव तत्राकारोऽस्त्विति चेत् । अत्राहुः - 'गोपायतं नः' इत्यत्र गोपायशब्दस्य धातुत्वाद् धातोरन्त उदात्तो भवति । ततः शमकारेणैका