________________
१३२ ]
सिद्धान्तकौमुदी। [ भ्वादिलोपः स्यादार्धधातुके परे । गोपायांचकार, गोपायांबभूव, गोपायामास । जुगोप जुगुपतुः । ऊदित्वाद्वेट । जुगोपिथ, जुगोप्थ । गोपायिता, गोपिता, गोता । गोपाय्यात् , गुप्यात् । श्रगोपायीत् , अगोपीत् , अगौप्सीत् । धूप ३९६ 'आर्धधातुके' इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयं तु लोपे परनिमित्तम् , तदाह आर्धधातुकोपदेश इत्यादिना । 'आर्धधातुकोपदेशे' इति किम् ? अय वय गौ, आभ्यां क्विपि, 'लोपो व्योः-' इति लोपे, 'हखस्य, पिति-' इति तुकि, अपृक्तलोपे अत् वत् इतीष्यते । अत्र यलोपे सति अतो लोपो न भवति, आर्धधातुकोपदेशकाले धातोर्यकारान्तत्वात् । 'आर्धधातुकोपदेशे' इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात् , सन उपदेशकाले नकान्तत्वात् । आर्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्र. त्ययस्य आर्धधातुकस्योत्पत्तेः । 'आर्धधातुके परे' इति किम् ? कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति, 'अचः परस्मिन्-' इत्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाभावात् स्थानिवत्त्वं न स्यात् । तथा च प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिध्यति । यद्यपि सवर्णदीघेणाप्येतत्सिद्धम् , तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाभावपक्षे अाह जुगोपेति । पित्त्वेन कित्त्वाभावाल्लघूपधगुणः । जुगुपतुरिति । कित्त्वान्न गुणः । ऊदिवाडिति । थलादाविति शेषः। जुगुपिव, जुगुप्त । जुगुपिम, जुगुप्म । क्रादिनियमस्तु नप्राप्तस्यैवाभावस्य, नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति । लुटि आयप्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाभावपक्षे इड्विकल्पः। ऊदित्त्वस्य केवले चरितार्थत्वात् , तदाह गोपिता, गोप्तेति । गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत्। आशीलिङि आयप्रत्ययपक्षे अतो लोपे रूपमाह गोपाय्यादिति । श्रायप्रत्ययाभावे आह गुप्यादिति । लुङि सिचि आयप्रत्ययपक्षे आह अगोपायीदिति । आयप्रत्ययाभावपक्षे इटि रूपमाह अगोपीदिति । 'इट ईटि' इति सिज्लोपः । आंचक्रतुरित्यादीत्याहुः । अतो लोपः । 'अनुदात्तोपदेश-' इति सूत्रादुपदेश इत्यनुवर्तते, तदाह आर्धधातुकोपदेशेत्यादि । उपदेशे इति किम् , अय पय गतौ। आभ्यां विपि 'वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन' इति वार्तिकाद् 'लोपो व्योः-' इति यलोपे 'अतो लोपः' इति लोपो माभूत् । अत् , पत् । इह 'हवस्य पिति-' इति तुक् । आर्धधातुके पर इति किम् , कथयति । वृद्धौ कर्तव्ययां 'अचः परस्मिन्-' इति स्थानिवत्त्वं यथा स्यात् । गोपायामिति । नन्विह पायप्रत्ययस्यादन्ततामाश्रित्य
१ 'पय' इति तत्त्वबोधिन्याम् ।