________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३१
आर्धधातुकविवक्षायामायादयो वा स्युः । २३०६ कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५) कास्धातोः प्रत्ययान्तेभ्यश्चाम्स्यालिटि न तु मन्त्रे । 'कास्यनेकाज्महणं कर्तग्यम्'। सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाध्यमित्यर्थः । २३०७ आर्धधातुके । (६-४-४६) इत्यधिकृत्य । २३०८ अतो लोपः। (६-४-४८) आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य आय ईयङ् णिङ् चेति त्रय आयादयो मताः। 'गुपूधूपविच्छिपणिपनिभ्य आयः', 'ऋतेरीयङ्' 'कर्मणिङ्' इत्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । 'आर्ध. धातुके' इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात् , आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः। तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे श्राह कास्प्रत्ययात् । अाम् अमन्त्रे इति च्छेदः । 'चकास दीप्तो' 'जाय निद्राक्षये' इत्यादिभ्योऽपि लिटि आमिष्यते, तदर्थमाह कास्यनेकाजिति । ननु यद्यस्मिन् वार्तिके सूत्रस्थं प्रत्ययग्रहणमपि संबध्यते। तदा कासृधातोश्च अनेकाचश्च प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति किवन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कामृधातोश्च अनेकाचः प्रत्ययान्ताचेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह प्रत्ययग्रहणमपनीयेति । तथा च कास्धातो. रनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः। वस्तुतस्तु श्र इवाचरति अतीत्यादि नास्त्येवेति सुन्धातुनिरूपणे वक्ष्यते । तथा च गोपाय आमिति स्थितम् । अतो लोपः। 'अनुदात्तोपदेशवनति-' इत्यत उपदेशग्रहणमनुवर्तते ।
आयादयः। आयेयणि इत्यर्थः । विवक्षायामिति । परसप्तम्यो तु आर्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न संगच्छेतेति भावः। अन्ये तु 'गुपू रक्षणे' इत्यस्मात् तिनि पश्चादायप्रत्यये गोपायतिरित्यनिष्टं प्रसज्येत, विवक्षायामित्युक्ते तु आय्प्रत्यये कृते क्लिन बाधित्वा 'अप्रत्ययात्' इत्यकारप्रत्यये टापि च गोपाया धूपायेति सिध्यतीत्याहुः। कास्प्रत्यया । अमन्त्रेति किम् , कृष्णो नोनाव । अच्छन्दसीति तु नोक्तम् । मन्त्रभिने छन्दसि श्राम इष्टत्वात् । यथा 'पुत्रमामन्त्रयामास', प्रत्ययान्तत्वादाम् । 'अथ ह शुनःशेप ईक्षांचके', 'इजादेश्व-' इत्याम् । इह चुलुम्पचकासृदरिद्रादिभ्य आमोऽप्राप्तौ 'कास्यनेकाच-' इति वार्तिकमारभ्यते। प्रत्यय. प्रहणमपनीयेति । अन्यथा अ इवाचरति अति । अस्य लिटि श्री अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः । अन्ये तु भाष्यवार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनु. क्त्या प्रत्ययान्तादेकाचोप्याम् भवत्येव । म इवाचरति इत्याचारे किपि लिदि आंचकार