________________
१३० ] सिद्धान्तकौमुदी।
[ म्वादि३६४ स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ।
अथ परस्मैपदिनः । गुप् ३६५ रक्षणे । २३०३ गुपधूपविच्छिपणिपनिभ्य प्रायः। (३-१-२८) एभ्य प्रायप्रत्ययः स्यात् स्वार्थे । 'पुगन्त-' (सू २१८६) इति गुणः । २३०४ सनाद्यन्ता धातवः। ( ३-१-३२) सनादयः कमेणिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः। धातुस्वाबडा. दयः। गोपायति । २३०५ आयादय आर्धधातुके वा। (३-१-३१) विष्टोभत इति । 'उपसर्गात्सुनोति-' इति । षत्वम् । व्यष्टोभिष्टति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तत्तो गताः।
गुपू रक्षण इति । ऊदिदयम् । गुपधप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाभावादाह स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तु 'गोपायतं नः सुमनस्यमानः' इत्यत्र गोपायेत्यस्य धातु. स्वरेणान्तोदात्तत्वेन शवकारेण एकादेशस्यापि 'एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वे, तमित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाचः-' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्य गुणादि भवति, तदाह पुगन्तेति गुण इति । नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत अाह सनाद्यन्ताः । 'गुप्तिकिझ्यः सन्' इत्यारभ्य 'कमणि' इत्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् श्रादियेषां ते सनादयः णिप्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः, तदाह सनादयः कमेणिङन्ता इति । 'सन्क्यच्काम्यच्क्ययषोऽथाचारविणिज्यौ तथा। यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः॥' इति संग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्ययान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गुणे' इति पररूपम् । आयादयः। प्राय श्रादिर्येषां ते आयादयः । बाध्यते । अचीति किम् , रद्धा, जन्धा । सनाद्यन्ताः । सनादय इति । 'सन्क्यच्काम्यच्क्यङ्ग्यषोऽथाचारक्विणिज्यडौ तथा । यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः' । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः । सुप्तिङन्तमित्यनेन 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् । 'भूवादयो धातवः' इत्यस्यानन्तरं सनाद्यन्ताश्चेति न सूत्रितम् । सनादयो द्वादशेवेति निर्धारणाभावापत्तेः । 'सनायन्ता धातवः' इत्यस्यानन्तरं तु 'भूवादयश्च' इति पठित्वा धातव इत्येतत्तत्र त्यक्तुं शक्यम् ।